Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 331
________________ १५९४ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ व्यवहारप्रकृते सूत्रम् ४१ तद्यथा--गुरुको गुरुतरको यथागुरुकश्च । लघुकोऽपि त्रिविधः, तद्यथा-लधुर्लघुतरो यथालघुश्च । लघुखकोऽपि त्रिविधः, तद्यथा-लघुखको लघुवतरको यथालघुस्वकश्च । एतेषां व्यवहाराणां 'यथानुपूर्व्या' यथोक्तपरिपाट्या प्रायश्चित्तं वक्ष्यामि । किमुक्तं भवति !-एतेषु व्यवहारेषु समुपस्थितेषु यथापरिपाट्या प्रायश्चित्तपरिमाणमभिधास्ये ॥ ६०३९ ॥ ६०४० ॥ 6• यथाप्रतिज्ञातमेव करोति गुरुगो य होइ मासो, गुरुगतरागो भवे चउम्मासो । अहगुरुगो छम्मासो, गुरुगे पक्खम्मि पडिवत्ती ॥६०४१॥ गुरुको नाम व्यवहारः 'मासः' मासपरिमाणः, गुरुके व्यवहारे समापतिते मास एकः प्रायश्चित्तं दातव्य इति भावः । एवं गुरुतरको भवति 'चतुर्मासः' चतुर्मासपरिमाणः । यथा10 गुरुकः 'षण्मासः' षण्मासपरिमाणः । एषा 'गुरुकपक्षे' गुरुकव्यवहारे त्रिविधे यथाक्रमं प्रायश्चित्तप्रतिपत्तिः ॥ ६०४१॥ सम्प्रति लघुक-लघुवकव्यवहारविषयं प्रायश्चित्तपरिमाणमाह तीसा य पण्णवीसा, वीसा वि य होइ लहुयपक्खम्मि । पन्नरस दस य पंच य, अहालहुसगम्मि सुद्धो वा ॥६०४२ ॥ लघुको व्यवहारस्त्रिंशदिवसपरिमाणः, एवं लघुतरकः पञ्चविंशतिदिनमानः, यथालघुको 15 विंशतिदिनमानः, एषा लघुकव्यवहारे त्रिविधे यथाक्रमं प्रायश्चित्तपतिपत्तिः। लघुस्खको व्यवहारः पञ्चदशदिवसप्रायश्चित्तपरिमाणः, एवं लघुखतरको दशदिवसमानः, यथालघुखकः 'पञ्चदिवसानि' पञ्चदिवसप्रायश्चित्तपरिमाणः । यद्वा यथालघुखके व्यवहारे 'शुद्धः' न प्रायश्चित्तभाक् ॥६०४२ ।। अथ कं व्यवहारं केन तपसा पूरयति ! इति प्रतिपादनार्थमाह गुरुगं च अहमं खलु, गुरुगतरागं च होइ दसमं तु । अहगुरुग दुवालसमं, गुरुगे पक्खम्मि पडिवत्ती ॥६०४३ ॥ ___ गुरुकं व्यवहारं मासपरिमाणमष्टमं कुर्वन् पूरयति । किमुक्तं भवति ? –गुरुकं व्यवहारं मासपरिमाणमष्टमेन वहति । तथा गुरुकतरकं चतुर्मासप्रमाणं व्यवहारं दशमं कुर्वन् पूरयति, दशमेन वहतीत्यर्थः । यथागुरुकं षण्मासप्रमाणं 'द्वादशं कुर्वन्' द्वादशेन वहन् पूरयति । एषा 'गुरुकपक्षे' गुरुव्यवहारपूरणविषये तपःप्रतिपत्तिः ॥ ६०४३ ॥ छटुं च चउत्थं वा, आयंबिल एगठाण पुरिम8 । निव्वीयं दायव्वं, अहालहुसगम्मि सुद्धो वा ॥ ६०४४ ॥ लघुकं व्यवहारं त्रिंशदिनपरिमाणं षष्ठं कुर्वन् पूरयति, लघुतरकं पञ्चविंशतिदिवसपरिमाणं व्यवहारं चतुर्थं कुर्वन् , यथालघुकं व्यवहारं विंशतिदिवसमानमाचाम्लं कुर्वन् पूरयति । एषा लघुकत्रिविधव्यवहारपूरणे तपःप्रतिपत्तिः । तथा लघुखकव्यवहारं पञ्चदशदिवसपरिमाणमेक30 स्थानकं कुर्वन पूरयति, लघुखतरकं व्यवहारं दशदिवसपरिमाणं पूर्वार्द्धं कुर्वन् , यथालघुवकव्यवहारं पञ्चदिनप्रमाणं निर्विकृतिकं कुर्वन् पूरयति । एतेषु गुरुतरादिषु व्यवहारेष्वनेनैव क्रमेण तपो दातव्यम् । यदि वा यथालघुस्वके व्यवहारे प्रस्थापयितव्ये स प्रतिपन्नपरिहारतपः १ एतदनन्तरम्-ग्रन्थानम्-७५०० इति का ॥ 29 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340