Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
भाष्यगाथाः ५९६९-७४ ]
पञ्चम उद्देशः ।
१५७७
अस्य व्याख्या सुगमा । नवरम् — 'सवेण्टकं ' नालयुक्तं अलाबुकं तद् निर्मन्थीनां न कल्पते । निर्मन्थानां तु कल्पते ॥ अत्र भाष्यम् -
ते चैव सवेंटम्मि, दोसा पादम्मि जे तु सविसाणे । अइरेग अपडिलेहा, बिइय गिलाणोसहट्टवणा ।। ५९७३ ॥
1
त एव 'सवृन्तेऽपि' सनालेsपि अलाबुमये पात्रे दोषा मन्तव्या ये सविषाणे आसने 5 पादकर्मादय उक्ताः । द्वितीयपदे तु धारयेदपि । तैत्राध्वनि घृतं वा तैलं वा सुखेनैवापरिंगदुखते, ग्लानाया वा योग्यं तत्रौषधं प्रक्षिप्तमास्ते । तच्च सवृन्तकं प्रवर्तिनी स्वयं सारयति । निर्ग्रन्थानामपि निष्कारणे न कल्पते । यदि धारयन्ति ततोऽतिरिक्तोपकरणदोषः, सवृन्तके च प्रत्युपेक्षणा न शुध्यति । द्वितीयपदे ग्लानस्य योग्यमौषधं तत्र स्थापनीयमिति कृत्वा ग्रहतव्यम् ॥ ५९७३ ॥
सूत्रम् —
नो कप्पs निग्गंधीणं सवेंटियं पादकेसरियं धारितए वा परिहरितए वा । कप्पड़ निग्गंथाणं सर्वेटियं
पाद केसरियं धारितए वा परिहरित्तए वा ३५ ॥
नो कल्पते निर्मन्थीनां सवृन्तिका पौद केसरिका धारयितुं वा परिहर्तुं वा । कल्पते निर्मन्थानां 15 सवृन्तिका पादकेसरिका धारयितुं वा परिहर्तुं वा ॥ अथ केयं सवृन्ता पादकेसरिका ? इत्याहलाउयपमाणदंडे, पडिलेहणिया उ अग्गए बद्धा ।
सा केसरिया भन्नइ, सनालए पायपेहडा ।। ५९७४ ॥
10
यत्राभिनवसङ्कटमुखे अलाबुनि हस्तो न माति तस्यालाबुनो यद् उच्चत्वं तत्प्रमाणो दण्डः क्रियते, तस्याग्रभागे बद्धा या प्रत्युपेक्षणिका सा पादकेसरिका सवृन्ता भण्यते । सा च कारण - 20 गृहीतस्य सनालस्य पात्रस्य प्रत्युपेक्षणार्थं गृह्यते । तां यदि निर्मन्थ्यो गृह्णन्ति तदा चतुर्गुरु, सैव च प्रतिसेवनादिका विराधना । निर्ग्रन्थानामप्युत्सर्गतो न कल्पते । द्वितीयपदे सनालमलाबुकं तया प्रत्युपेक्ष्य ततो मुखं क्रियते ।। ५९७४ ॥
सूत्रम् —
नो
at as निग्गंथीणं दारुदंडयं पायपुंछणं धारित्तए वा परिहरित्तए वा । कप्पइ निग्गंथाणं दारुदंडेयं जाव परिहरितए वा ३६ ॥
१ तत्र सनाले तुम्बकेऽध्वनि घृतं वा तैलं वा सुखेनैव वृन्तं हस्तेन गृहीत्वा भूमावपरि° कां० ॥ २ "पादकेसरिया णाम डहरयं चीरं । असईए चीराणं दारुए बज्झतेि" इति चूर्णौ ॥ १३ वा । सूत्रे च द्वितीया निर्देशः प्राकृतत्वात् प्रथमार्थे द्रष्टव्यः ॥ अथ केयं कां० ॥ ४° यते, एतदर्थं साऽपि ग्रहीतव्या ॥ ५९७४ ॥ कां० ॥ ५ इयं पायपुंछणं धारितए वा परि कां० ॥
Jain Education International
For Private & Personal Use Only
25
www.jainelibrary.org
Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340