SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५९६९-७४ ] पञ्चम उद्देशः । १५७७ अस्य व्याख्या सुगमा । नवरम् — 'सवेण्टकं ' नालयुक्तं अलाबुकं तद् निर्मन्थीनां न कल्पते । निर्मन्थानां तु कल्पते ॥ अत्र भाष्यम् - ते चैव सवेंटम्मि, दोसा पादम्मि जे तु सविसाणे । अइरेग अपडिलेहा, बिइय गिलाणोसहट्टवणा ।। ५९७३ ॥ 1 त एव 'सवृन्तेऽपि' सनालेsपि अलाबुमये पात्रे दोषा मन्तव्या ये सविषाणे आसने 5 पादकर्मादय उक्ताः । द्वितीयपदे तु धारयेदपि । तैत्राध्वनि घृतं वा तैलं वा सुखेनैवापरिंगदुखते, ग्लानाया वा योग्यं तत्रौषधं प्रक्षिप्तमास्ते । तच्च सवृन्तकं प्रवर्तिनी स्वयं सारयति । निर्ग्रन्थानामपि निष्कारणे न कल्पते । यदि धारयन्ति ततोऽतिरिक्तोपकरणदोषः, सवृन्तके च प्रत्युपेक्षणा न शुध्यति । द्वितीयपदे ग्लानस्य योग्यमौषधं तत्र स्थापनीयमिति कृत्वा ग्रहतव्यम् ॥ ५९७३ ॥ सूत्रम् — नो कप्पs निग्गंधीणं सवेंटियं पादकेसरियं धारितए वा परिहरितए वा । कप्पड़ निग्गंथाणं सर्वेटियं पाद केसरियं धारितए वा परिहरित्तए वा ३५ ॥ नो कल्पते निर्मन्थीनां सवृन्तिका पौद केसरिका धारयितुं वा परिहर्तुं वा । कल्पते निर्मन्थानां 15 सवृन्तिका पादकेसरिका धारयितुं वा परिहर्तुं वा ॥ अथ केयं सवृन्ता पादकेसरिका ? इत्याहलाउयपमाणदंडे, पडिलेहणिया उ अग्गए बद्धा । सा केसरिया भन्नइ, सनालए पायपेहडा ।। ५९७४ ॥ 10 यत्राभिनवसङ्कटमुखे अलाबुनि हस्तो न माति तस्यालाबुनो यद् उच्चत्वं तत्प्रमाणो दण्डः क्रियते, तस्याग्रभागे बद्धा या प्रत्युपेक्षणिका सा पादकेसरिका सवृन्ता भण्यते । सा च कारण - 20 गृहीतस्य सनालस्य पात्रस्य प्रत्युपेक्षणार्थं गृह्यते । तां यदि निर्मन्थ्यो गृह्णन्ति तदा चतुर्गुरु, सैव च प्रतिसेवनादिका विराधना । निर्ग्रन्थानामप्युत्सर्गतो न कल्पते । द्वितीयपदे सनालमलाबुकं तया प्रत्युपेक्ष्य ततो मुखं क्रियते ।। ५९७४ ॥ सूत्रम् — नो at as निग्गंथीणं दारुदंडयं पायपुंछणं धारित्तए वा परिहरित्तए वा । कप्पइ निग्गंथाणं दारुदंडेयं जाव परिहरितए वा ३६ ॥ १ तत्र सनाले तुम्बकेऽध्वनि घृतं वा तैलं वा सुखेनैव वृन्तं हस्तेन गृहीत्वा भूमावपरि° कां० ॥ २ "पादकेसरिया णाम डहरयं चीरं । असईए चीराणं दारुए बज्झतेि" इति चूर्णौ ॥ १३ वा । सूत्रे च द्वितीया निर्देशः प्राकृतत्वात् प्रथमार्थे द्रष्टव्यः ॥ अथ केयं कां० ॥ ४° यते, एतदर्थं साऽपि ग्रहीतव्या ॥ ५९७४ ॥ कां० ॥ ५ इयं पायपुंछणं धारितए वा परि कां० ॥ Jain Education International For Private & Personal Use Only 25 www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy