________________
१५७६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ ब्रह्मरक्षाप्रकृते सूत्रम् ३४-३६ सविसाणे उड्डाहो, पाकम्मादी य तो पडिकुटुं ।
थेरीए वासासुं, कप्पइ छिण्णे विसाणम्मि ॥ ५९६९ ॥ सविषाणे आसने उपविशन्त्यामार्यिकायामुड्डाहो भवति, पादकर्मादयश्च दोषाः सम्भवन्ति, ततः प्रतिकुष्टं तत्रोपवेशनमिति गम्यते । द्वितीयपदे वर्षासु पीठ-फलकदुर्लभतायां सविषाणमपि गृह्यते, तस्य च विषाणं छित्त्वा परिष्ठाप्यते । एवं छिन्ने विषाणे स्थविराया अन्यस्या वा कल्पते ॥ ५९६९ ॥
जंतु न लब्भइ छेत्तुं, तं थेरीणं दलंति सविसाणं ।
छायंति य से दंडं, पाउंछण मट्टियाए वा ॥ ५९७०॥ यत् 'तु' पुनश्छेत्तुं न लभ्यते ततः सविषाणमपि तदासनं स्थविरसाध्वीनां साधवः प्रयच्छन्ति, 10 तदीयं च दण्डं पादप्रोञ्छनेन धनं छादयन्ति, तेन वेष्टयित्वा स्थूलतरं कुर्वन्तीत्यर्थः; मृत्तिकया - वा परिवेष्टयन्ति । निर्ग्रन्थानां सविषाणमपि कल्पते ॥ ५९७० ॥ कुतः ? इत्याह
- समणाण उ ते दोसा, न होति तेण तु दुवे अणुण्णाया।
पीढं आसणहेउं, फलगं पुण होइ सेञ्जट्टा ॥ ५९७१ ॥ श्रमणानां पुनः 'ते' पादकर्मादयो दोषा न भवन्ति ततः 'द्वे अपि' पीढ-फलके सविषाणे 15 अप्यनुज्ञाते । तत्र पीठमासनहेतोः फलकं पुनः ‘शय्यार्थ' शयननिमित्तं वर्षासु गृह्यते * ॥ ५९७१ ॥ अथ किमर्थं वर्षासु तत्रोपवेशनं शयनं वा क्रियते ? इत्याह
कुच्छण आय दयट्ठा, उज्झायगमरिस-बायरक्खट्ठा।
पाणा सीतल दीहा, रक्खट्ठा होइ फलगं तु ॥ ५९७२ ॥ आर्द्रायां भूमौ स्थाप्यमानाया निषद्यायाः कोथनं भवति, शीतलायां च भूमावुपविशता 20 धान्यं न जीर्यति ततो ग्लानत्वेन आत्मविराधना, 'दयार्थ च' जीवदयानिमित्तं वर्षासु भूमौ नोपवेष्टव्यम् , "उज्झायगं" ति भूमेरार्द्रभावेन मलिनीभूतस्योपधेर्जुगुप्सनीयता स्यात् , अर्शासि वा क्षुभ्येयुः, वातो वाऽधिकतरं प्रकुप्येत् , तत एतेषां रक्षार्थ पीठकं ग्रहीतव्यम् । तथा शीतलायां भूमौ बहवः कुन्थु-पनकप्रभृतयः प्राणिनः सम्मूठेयुः ततो भूमौ शयानानां तेषां विराधना भवति, दीर्घजातीया वा भूमेर्निर्गत्य दशेयुः, उपलक्षणमिदम् , तेनोपधिकोथना25 जीर्णतादयोऽपि दोषा भवन्ति, एतेषां रक्षार्थं वर्षासु फलकं गृह्यते ॥ ५९७२ ॥ सूत्रम्
नो कप्पइ निग्गंथीणं सवेंटगं लाउयं धारित्तए वा परिहरित्तए वा । कप्पइ निगंथाणं सवेंटगं लाउयं
धारित्तए वा परिह रित्तए वा ३४ ॥ १ 'प्रतिक्रुष्टं' प्रतिषिद्धं संयतीनामनेन सूत्रेण सविपाणस्यासनस्य ग्रहणमिति गम्य कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org