________________
१५७८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मोकप्रकृते सूत्रम् ३७ . अस्य व्याख्या-यत्र दारुमयस्य दण्डस्याग्रभागे ऊर्णिका दशिका बध्यन्ते तद दारुदण्डक पादप्रोञ्छनमुच्यते । तद् निर्ग्रन्थीनां न कल्पते, निर्ग्रन्थानां तु कल्पते ॥ अत्र भाष्यम्
ते चेव दारुदंडे, पाउंछणगम्मि जे सनालम्मि ।
दुण्ह वि कारणगहणे, चप्पडए दंडए कुजा ॥ ५९७५ ॥ 5 ये सनाले पात्रे दोषा उक्तास्त एव दारुदण्डकेऽपि पादप्रोञ्छनके भवन्ति । 'द्वयोरपि च' सनालपात्र-दारुदण्डकयोः कारणे निम्रन्थीनामपि ग्रहणं भवति । तत्र च ग्रहणे कृते 'चप्पडकान्' चतुप्पलान् दण्डकान् कुर्यात् ।। ५९.७५ ।।
॥ ब्रह्मरक्षाप्रकृतं समाप्तम् ॥
मो क प्रकृतम् 10 सूत्रम्
नो कप्पइ निग्गंथाण वा निग्गंथीण वा अन्नमन्नस्स मोयं आइयत्तए वा आइमित्तए वा, नन्नत्थै गाढा
ऽगाढेसु रोगायंकेसु ३७ ॥ - अस्य सम्बन्धमाह15
बंभवयपालणट्ठा, गतोऽहिगारो तु एगपक्खम्मि।
तस्सेव पालणट्ठा, मोयाऽऽरंभो दुपक्खे वी ॥ ५९७६ ॥ ब्रह्मव्रतपालनार्थमेकस्मिन्-संयतीलक्षणे पक्षे पूर्वसूत्रेषु योऽधिकारः स गतः, समर्थित इत्यर्थः । सम्प्रति तु 'तस्यैव' ब्रह्मवतस्य पालनार्थ 'द्विपक्षेऽपि' संयत-संयतीपक्षद्वयविषये मोकसूत्रारम्भः क्रियते ॥ ५९७६ ॥ 20 अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा 'अन्योन्यस्य' परस्परस्य मोकमापातुं वा आचमितुं वा । किं सर्वथैव ? न इत्याह-गाढाः-अहि-विषविसूचिकादयः अगाढाश्व-ज्वरादयो रोगातङ्कास्तेभ्योऽन्यत्र न कल्पते, तेषु तु कल्पत इत्यर्थः । एष सूत्रार्थः ॥ सम्प्रति नियुक्तिविस्तरः
मोएण अण्णमण्णस्स आयमणे चउगुरुं च आणाई ।
मिच्छत्ते उड्डाहो, विराहणा भावसंबंधो ॥ ५९७७ ॥ _ 'अन्योन्यस्य' संयतः संयतीनां मोकेन संयती वा संयतानां मोकेन निशाकल्प इति कृत्वा रात्रौ यद्याचमति तदा चतुर्गुरु, आज्ञादयश्च दोषाः, मिथ्यात्वं च भवेद् न यथावादी
१ पात्रे पादकर्मकरणादयो दोषा कां० ॥२°थ आगाढा-ऽणागा का ० । एतत्पाठानुसारेणैव कां० टीका, दृश्यतां टिप्पणी ३ ॥ ३°ह-आगाढाः-अहि-विष-विसूचिकांदयः अनागाढाश्चज्वरा का० ॥ ४ °षु तु मोकमापातुमाचमितुं वा परस्परस्य कल्प का ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org