Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 321
________________ १५८४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ परिवासितप्रकृते सूत्रम् ३८ अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'परिवासितस्य' रजन्यां स्थापितस्याहारस्य मध्यात् त्वक्प्रमाणमात्रमपि भूतिप्रमाणमात्रमपि बिन्दुप्रमाणमात्रमपि यावदाहारमाहर्तुम् । इह त्वक्प्रमाणमात्रं नाम-तिलतुषत्रिभागमात्रम् तचाशनस्य घटते, भूतिप्रमाणमात्रं सक्तुकादीनां नेयम् , बिन्दुप्रमाणमात्र पानकस्य । इदमेवापवदेति-आगाढेभ्यो 5 रोगा-ऽऽतक्केभ्योऽन्यत्र न कल्पते, तेषु पुनः कल्पते इति सूत्रार्थः ॥ अथ नियुक्तिविस्तर: परिवासियआहारस्स मग्गणा आहारो को भवे अणाहारो। ___ आहारो एगंगिओ, चउविहो जं वऽतीइ तहिं ॥ ५९९८ ॥ परिवासितस्याहारस्य 'मार्गणा' विचारणा कर्तव्या । तत्र शिष्यः प्राह-वयं तावदेतदेव न जानीमः-को नामाहारः ? को वाऽनाहारः ? इति । सूरिराह-'एकाङ्गिकः' शुद्ध एव यः 10 क्षुधां शमयति स आहारो मन्तव्यः । स चाशनादिकश्चतुर्विधः, यद्वा तत्राहारेऽन्यद् लवणादिकं 'अतियाति' प्रविशति तदप्याहारो मन्तव्यः ॥ ५९९८ ॥ अथैकानिकं चतुर्विधमाहारं व्याचष्टे कूरो नासेइ छह, एंगंगी तक्क-उदग-मजाई । खाइमें फल-मसाई, साइमें महु-फाणियाईणि ॥ ५९९९ ॥ 15 अशने कूरः 'एकाङ्गिकः' शुद्ध एव क्षुधं नाशयति । पाने तक्रोदक-मद्यादिकमेकानिकमपि तृषं नाशयति आहारकार्य च करोति । खादिमे फल-मांसादिकं स्वादिमे मधु-फाणितादीनि केवलान्यप्याहारकार्य कुर्वन्ति ॥ ५९९९ ॥ "ज वऽईइ तहिं" ति पदं व्याख्याति जं पुण खुहापसमणे, असमत्थेगंगि होइ लोणाई । तं पि य होताऽऽहारो, आहारजुयं व विजुतं वा ॥ ६०००॥ 20 यत् पुनरेकाङ्गिक क्षुधाप्रशमनेऽसमर्थ परमाहारे उपयुज्यते तदप्याहारेण संयुक्तमसंयुक्तं वा आहारो भवति । तच लवणादिकम् । तत्राशने लवण-हिङ्गु-जीरकादिकमुपयुज्यते ॥६०००॥ उदए कप्पूराई, फलि सुत्ताईणि सिंगवेर गुले। न य ताणि खविंति खुहं, उवगारित्ता उ आहारो ॥ ६००१॥ उदके कर्पूरादिकमुपयुज्यते, आम्रादिफलेषु सुत्तादीनि द्रव्याणि, 'शृङ्गबेरे च' शुण्ठ्यां गुल 25 उपयुज्यते । न चैतानि कर्पूरादीनि क्षुधां क्षपयन्ति, परमुपकारित्वादाहार उच्यते । शेषः सोऽप्यनाहारः ॥ ६००१ ॥ अहवा जं भुक्खत्तो, कद्दमउवमाइ पक्खिवह कोटे। सव्वो सो आहारो, ओसहमाई पुणो भइतो ॥६००२ ॥ अथवा बुभुक्षया आतः यत् कर्दमोपमया मृदादिकं कोष्ठे प्रक्षिपति । कर्दमोपमा नाम ___"अपि कर्दमपिण्डानां, कुर्यात् कुक्षिं निरन्तरम् ।" स सर्वोऽप्याहार उच्यते । औषधादिकं पुनः 'भक्तं' विकल्पितम् , किञ्चिदाहारः किञ्चिच्चा. १ मपि तोयविन्दु कां० विना ॥ २ 'दति-आगाढा-ऽनागाढेभ्यो रो' कां० ॥ ३ पगागी पाणगं तु मजाई ताभा० ॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340