Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
१५८६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ परिवासितप्रकृते सूत्रम् ३८ ये कुर्वन्ति कथं ते श्रमणा असञ्चया भवन्ति ? । यथा “सर्वस्माद् रात्रिभोजनाद् विरमणम्" इत्यभिग्रहं गृहीत्वा लुम्पन्ति तथा 'नून'मिति वितर्कयाम्यहम् -'अन्यत्रापि' प्राणिवधादावेवमेव समाचरन्ति ॥ ६००६ ॥ अथ 'द्रवे दोषा अमी भवन्ति' इति पदं व्याचष्टे
निद्धे दवे पणीए, आवजण पाण तक्कणा झरणा। .
आहार दिट्ठ दोसा, कप्पड़ तम्हा अणाहारो ॥ ६००७ ॥ ___ इह वक्ष्यमाणे अभ्यङ्गनसूत्रे भणितं यद् घृतादिकं तैल-वसावर्जितं अद्रवं भवति तदेव सिग्धमुच्यते । यत् तु सौवीरद्रवादिकं अलेपकृतं यच्च दुग्ध-तैल-वसा-द्रवधूतादिकं लेपकृतं तदुभयमपि द्रवमित्युच्यते ॥ तथा चाहै
, सुत्तभणियं तु निद्धं, तं चिय अदवं सिया अतिल्ल-वसं ।
सोवीरग-दुद्धाई, दवं अलेवाड लेवाडं ॥ ६००८॥ ___ व्याख्यातार्था ॥ ६००८ ॥ प्रणीतं नाम-गूढस्नेहं घृतपूरादिकं आईखाद्यकम् , यद्वा बहिः स्नेहेन प्रक्षितं मण्डकादि अपरं वा स्नेहावगाढं कुसणादि प्रणीतमुच्यते । तथा चाह
गूढसिणेहं उल्लं, तु खजगं मक्खियं व जं बाहिं।
नेहागाउँ कुसणं, तु एवमाई पणीयं तु ॥ ६००९ ॥ 16 गतार्था ॥ ६००९ ॥
एवंविधे स्निग्धे द्रवे प्रणीते च रात्रौ स्थापिते कीटिकादयः प्राणजातीया आपद्यन्ते, पतन्तीत्यर्थः, तत्र गृहकोलिकादितर्कणपरम्परा वक्तव्या । "झरणा य" त्तिं स्यन्दमाने भाजनेऽधस्तात् प्राणजातीयाः सम्पतन्ति । परः प्राह-नन्वेते दोषा आहारे दृष्टास्तस्मादनाहारः परिवासयितुं कल्पते ॥ ६००७ ।। सूरिराह
. अणहारो विन कप्पइ, दोसा ते चेव जे भणिय पुद्धि ।
तदिवसं जयणाए, बिइयं आगाढ संविग्गे ॥६०१०॥ अनाहारोऽपि न कल्पते स्थापयितुम् । यदि स्थापयति ततश्चतुर्लघु, 'त एव चे' विराधनादयो दोषा ये 'पूर्वम्' आहारे भणिताः, तस्मादनाहारमपि न स्थापयेत् । यदा प्रयोजनं तदा तद्दिवसं विभीतक-हरीतकादिकं मार्यते । अथ न लभ्यते, दिने दिने मार्गयन्तो वा गर्हितास्ततो यतनया यथा अगीतार्था न पश्यन्ति तथा द्वितीयपदमाश्रित्यागाढे कारणे संविमो गीतार्थः स्थापयति, घनचीरेण चर्मणा वा दर्दरयति, पार्श्वतः क्षारेणावगुण्डयति, उभयकालं प्रमाणयति ॥ ६०१०॥
जह कारणे अणहारो, उ कप्पई तह भवेज इयरो वी ।
वोच्छिण्णम्मि मडंबे, बिइयं अद्धाणमाईसु ॥ ६०११॥ 30 यथा कारणेऽनाहारः स्थापयितुं कल्पते तथा 'इतरोऽपि' आहारोऽपि कारणे कल्पते
१ "छठे भंते ! वए उवढिओ मि सव्वाओ राइभोयणाओ वेरमणं" इति हि पाक्षिकसूत्रवचनम् ॥ २ °ह बृहद्भाष्यकृत्-सुत्त का० ॥ ३ °का-मक्षिकादयः कां० ॥ ४ न केवलमाहारः अना कां० ॥ ५च संयमा-ऽऽत्मविरा का० ॥ ६°दा ग्लानादिप्रयो कां ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340