Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
१५८२ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मोकप्रकृते सूत्रम् ३७ सम्भवति नान्यदा ॥ ५९८९ ।। तत्रायं विधिः
दीहाइयणे गमणं, सागारिय पुच्छिंए य अइगमणं ।
तासि सगारजुयाणं, कप्पइ गमणं जहिं च भयं ॥ ५९९० ॥ 'दीर्पण कस्यापि साधोः अदने-भक्षणे कृते स्वपक्षमोकाभावे संयतीप्रतिश्रये गमनम् । 5 ततस्तासां सागारिके पृष्टे सति 'अतिगमनं' प्रवेशः कर्तव्यः । अथ संयत्याः सर्पदशनं जातं ततस्तासां सागारिकयुक्तानां साधुवसतौ गमनं कल्पते । यत्र च भयं तत्र दीपको ग्रहीतव्य इति वाक्यशेषः । एष सङ्ग्रहगाथासमासार्थः ॥ ५९९० ॥ साम्प्रतमेनामेव विवृणोति
निद्धं भुत्ता उववासिया व वोसिरितमत्तगा वा वि ।
सागारियाइसहिया, सभए दीवेण य ससदा ॥ ५९९१ ॥ 10 अहिना भक्षितः साधुः खपक्ष एव साधूनां मोकं पाय्यते । अथ तेषां नास्ति मोकम् ,
कुतः ? इत्याह-खिग्धमाहारं तदिवसं भुक्ता उपवासिका वा ततो नास्ति मोकम् ; अथवा व्युत्सृष्टमात्रकास्ते, तत्क्षण एव मोकं व्युत्सृष्टमपरं च नास्तीति भावः, ततो निर्ग्रन्थीनां प्रतिश्रये गन्तव्यम् । यदि निर्भयं तत एवमेव गम्यते । अथ सभयं ततः सागारिकादिना केनचिद् द्वितीयेन दीपकेन च सहिताः सशब्दा गच्छन्ति । ततः संयतीवसतिं प्रविशन्तो यदि नैषेधिकीं 15 कुर्वन्ति ततश्चतुर्गुरु ॥ ५९९१ ॥ तथा
तुसिणीए चउगुरुगा, मिच्छत्ते सारियस्स वा संका ।
पडिबुद्धबोहियासु व, सागारिय कजदीवणया ॥ ५९९२ ॥ तूष्णीका अपि यदि प्रविशन्ति तदा चतुर्गुरु । मिथ्यात्वं वा कश्चित् तूष्णीभावेन प्रविशतो दृष्ट्वा गच्छेत् । सागारिकस्य वा शङ्का भवति–किमत्र कारणं यदेवममी अवेलायामागताः ! 20 इति, 'स्तेना अमी' इति वा मन्यमानो ग्रहणा-ऽऽकर्षणादिकं कुर्याद् आहन्याद्वा । ततस्तूष्णी
कैरपि न प्रवेष्टव्यं किन्तु प्रथमं सागारिक उत्थापनीयः, ततस्तेन प्रतिबुद्धेन-उत्थितेन बोधितासु संयतीषु सागारिकस्य कार्यदीपना कर्तव्या-एकः साधुरहिना दष्टः, इह चौषधं स्थापितमस्ति तदर्थ वयमागताः ॥ ५९९२ ॥ ततः प्रवर्तिनी भणन्ति
मोयं ति देइ गणिणी, थोवं चिय ओसहं लहुं णेहा ।
मा मग्गेज सगारो, पडिसेहे वा वि वुच्छेओ ।। ५९९३ ॥ अहिदष्टस्यौषधं मोकमिति प्रयच्छत । ततः 'गणिनी' प्रवर्तिनी यतनया मोकं गृहीत्वा साधूनों ददाति भणति च-स्तोकमेवेदमौषधमेतावदेवासीत् , नातः परमन्यदस्तीत्यर्थः, अतः 'लघु' शीघ्रं नयत । किमर्थमित्थं कथयति? इत्याह-मा सागारिकः 'ममापि एतदौषधं प्रयच्छत' इत्येवं मार्गयेत् । यदा तु 'नास्त्यतः परम्' इति प्रतिषेधः कृतस्तदा व्यवच्छेदः 30कृतो भवति, न भूयो मार्गयतीत्यर्थः ॥ ५९९३ ॥
न वि ते कहंति अमुगो, खइओ ण वि ताव एय अमुईए । १°च्छिऊण अइ ताभा० ॥ २ 'दीर्घेण' सर्पण रात्रौ कस्यापि कां० ॥ ३°ष नियुक्तिगाथा कां.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340