Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 316
________________ भाष्यगाथाः ५९७५-८१ ] पञ्चम उद्देशः । १५७९ तथाकारीति कृत्वा । यद्वा कश्चिदभिनवधर्मा तद् निरीक्ष्य मिथ्यात्वं गच्छेत् - अहो ! अमी समला इति । उड्डाहश्च भोगिनी घाटिकादिज्ञापने भवति । विराधना च संयमस्यात्मनो वा भवति । तत्र संयमविराधना तेन स्पर्शेनैकतरस्य भावसम्बन्धो भवेत्, ततश्च प्रतिगमनादयो दोषाः । आत्मविराधना ं तु "चिंतेइ दट्टुमिच्छइ" ( गा० २२५८ ) इत्यादिक्रमेण ज्वर - दाहादि की ।। ५९७७ ॥ किञ्च - दिवस पिता ण कप्पर, किमु णिसि मोएण अण्णमण्णस्स । इत्थंगते किमण्णं, ण करेज अकिञ्चपडिसेवं ॥ ५९७८ ॥ दिवसेऽपि तावन्न कल्पते अन्योन्यस्य मोकेनाऽऽचमितुं किं पुनः 'निशि' ' इत्थते हि' परस्परं मोकाचमनेऽपि कृते किं नाम तदकृत्यमस्ति यस्य न कुर्याताम् ? ॥ ५९७८ ॥ रात्रौ ? | प्रतिसेवा पिता गरहितं किं पुण घेत्तुं जें कर बिलाओ वा । घासपट्ठो गोणो, दुरक्खओ सस्सअन्भासे ।। ५९७९ ।। वक्तुमपि तावदेतद् मोकाचमनं गर्हितं किं पुनः संयत्याः कराद् 'बिलाद् वा' भगादित्यर्थः मोकं ग्रहीतुम् ? । अपि च घासः - चारी तस्याश्चरणार्थं गौः प्रविष्टः सन् 'सस्याभ्यासे' धान्यमूले चरन् दूरक्षो भवति, धान्यमदन् दुःखेन रक्ष्यत इत्यर्थः, एवमयमपि संयत्या मोकेनाचमनू 15 प्रसङ्गतः शेषामपि क्रियां कुर्वन् न वारयितुं शक्य इति भावः ॥ ५९७९ ॥ 5 दिवस सपक्खें लहुगा, अद्धाणाऽऽगाढ गच्छ जयणाए । रति च दोहिं लहुगा, बिइयं आगाढ जयणाए || ५९८० ॥ दिवसतः 'सपक्षेऽपि' संयतः संयतानां संयती वा संयतीनां मोकेन यदि आचमति तदा चतुर्लघु | शैक्षाणां तदवलोकनादन्यथाभावो भवेत् । गृहस्थ- परतीर्थिका वोड्डाहं कुर्युः ॥ 20 I कथम् ? इत्याह--- द्वितीयपदे अध्वनि वर्तमानस्य गच्छस्यापरस्मिन् वा आगाढे कारणे यतनया - दिवा स्वपक्षमोकेनाचमेत् । अथ रात्रौ निष्कारणे मोकेनाचमति ततश्चतुर्लघु 'द्वाभ्यामपि ' तपः - कालाभ्यां 10 अक्खा वि जिया, लोए णत्थेरिसऽन्नधम्मेसु । सरिसेण सरिससोही, कीरइ कत्थाइ सोहेजा || ५९८१ ॥ अहो ! अमीभिः श्रमणकैरेवं मोकेनाचमद्भिर स्थिसरजस्का अपि जिताः, अस्मिँल्लोकेऽन्ये बहवो धर्मा विद्यन्ते परं कुत्रापि ईदृशं शौचं न दृष्टम् । सदृशेन च सदृशस्य या शोधिः क्रियते 25 सा किं कुत्रचित् 'शोधयेत्' शुद्धं कुर्यात् ? अशुचिना धाव्यमानमर्शुचि न शुध्यतीति भावः ॥ ५९८१ ॥ १ 'दिकामविषयदशादशकानुभवनम् ॥ ५९७७ ॥ कां० ॥ २ स्य साधु-साध्वीनां परस्परस्य मोके कां० ॥ ३ 'वां तौ साधु-साध्वीजनौ न कु कां० ॥ ४ 'लाईहिं । घास ताभा० ॥ ५ °म् ? । “जे" इति पादपूरणे । अपि कां० ॥ ६ शुचि कथं नु नाम शुध्य कां० ॥ ७°रणे वक्ष्यमाणलक्षणे यत कां० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340