Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
भाष्यगाथाः ५९५७-६५] पञ्चम उद्देशः ।
१५७३ नादिभिर्यथोचितैस्तपोभिः शुध्यन्ति, न तीरैरभिग्रहैः ॥ ५९६० ॥ ५९६१ ॥ अपि च
जो वि दढेिधणो हुन्जा, इथिचिंधो तु केवली ।
वसते सो वि गच्छम्मी, किमु त्थीवेदसिंधणा ॥ ५९६२ ॥ योऽपि 'दग्धेन्धनः' भस्मसात्कृतवेदमोहनीयकर्मा 'स्त्रीचिह्नः' बहिःस्त्रीलक्षणलक्षितः केवली भवति सोऽपि गच्छवासे वसति किं पुनर्या संयती स्त्रीवेदेन सेन्धना !, सा सुतरां गच्छे । वसेदिति भावः ॥ ५९६२ ॥
यदप्युक्तम्-'यदि न खादयति ततः को नाम तस्या अभिग्रहग्रहणे दोषः?' तदप्ययुक्तम् , प्रतिसेव्यमानाया आखादनस्य यादृच्छिकत्वात् । कथम् ? इति चेद् उच्यते
अलायं घट्टियं ज्झाई, फुफुगा हसहसायई।
कोवितो वड्वती वाही, इत्थीवेदे वि सो गमो ॥ ५९६३॥ 10 'अलातम्' उल्मुकं घट्टितं' चालितं सद् यथा 'ध्यायति' प्रज्वलति, यथा वा फुम्फुका घट्टिता 'हसहसायति' भृशं दीप्यते, यथा वा व्याधिरपथ्यासेवनादिना कोपितो वर्धते, स्त्रीवेदस्यापि स एव गमो मन्तव्यः, सोऽपि घट्टितः प्रज्वलतीत्यर्थः । अतो यादृच्छिकमाखादनमिति ॥५९६३॥ आह–संयतीनां प्रतिषिद्धा अमी अभिग्रहाः परं संयतानां का वार्ता ? अत्रोच्यते
कारणमकारणम्मि य, गीयत्थम्मि य तहा अगीयम्मि। 15
एए सव्वे वि पए, संजयपक्खे विभासिज्जा ॥ ५९६४ ॥ यानि एतानि व्युत्सृष्टकायिकत्वादीनि पदान्युक्तानि तानि 'कारणे' सिंहादिभिरभिभूतस्य देवताकम्पननिमित्तं वा गीतार्थस्यागीतार्थस्य वा कल्पन्ते । अकारणे पुनरगीतार्थस्य न कल्पन्ते, गीतार्थस्य तु निष्कारणेऽपि निर्जरानिमित्तं कल्पन्ते । अचेलत्वादिकमपि गीतार्थस्य जिनकल्पं प्रतिपद्यमानस्य कल्पते । एवं संयतपक्षे 'एतानि' अचेलतादीनि सर्वाण्यपि 20 पदानि विभाषयेत् ॥ ५९६४ ॥ सूत्रम्
नो कप्पइ निग्गंथीणं आकुंचणपट्टगंधारित्तए वा परिहरित्तए वा । कप्पइ निग्गंथाणं आकुंचणपट्टगं
धारित्तए वा परिहरित्तए वा ३१ ॥ एवं यावद् दारुदण्डकसूत्रम् ॥ अथामीषां सूत्राणां सम्बन्धमाह
बंभवयपालणट्ठा, तहेब पट्टाइया उ समणीणं ।
बिइयपदेण जईणं, पीढग-फलए विवजित्ता ॥ ५९६५ ॥ १°भिः भगवद्वचनप्रामाण्यादेव 'शुध्यन्ति' कर्ममलापगमतो निर्मलीभवन्ति न तीनै का० ॥ २°कत्व-ग्रामादिवहिःप्रदेशातापनाप्रदानप्रभृतीनि पदान्युक्तानि तानि 'कारणे सिंहादिभिरभिभूतस्य तदुत्थोपद्रवप्रशमननिमित्तं वा कां ॥ ३ 'विभाषयेत्' यथासम्भवं प्रतिपादयेत् ॥ ५९६४ ॥ का० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340