Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 303
________________ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ब्रह्मरक्षाप्रकृते सूत्रम् १७-१८ होइ परपत्थणिज्जा, विइयं अद्धाणमाईसु ॥ ५९३८ ॥ अत एव यद्यार्यिका अचेलिका भवन्ति ततस्तासां चतुर्गुरुकाः आज्ञादयश्च दोषाः । तथा चेलरहिता संयतीं 'समला' मलदिग्धदेहां दृष्ट्वा लोकः 'जुगुप्सितं' जुगुप्सां कुर्यात्-आः ! कष्टम् , इहलोके एवेदृश्यवस्था परलोके तु पापतरा भविष्यति, 'गर्हितं च' गहीं प्रवचनस्य 5 कुर्यात्-असारं सर्वमेतद् दर्शनमिति । अचेलिका च परस्य प्रार्थनीया भवति । अत्र द्वितीयपदमध्वादिषु विविक्तानां मन्तव्यम् ॥ ५९३८ ॥ अपि च पुणरावत्ति निवारण, उदिण्णमोहो व दगु पेल्लेजा। पडिबंधो गमणाई, डिंडियदोसा य निगिणाए ॥ ५९३९ ॥ अचेलामार्यां दृष्ट्वा प्रव्रज्याभिमुखानामपि कुलस्त्रीणां पुनरावृत्तिर्भवति, प्रव्रज्यां न गृह्णीयुरि10 त्यर्थः । अन्यो वा कश्चिद् निवारणं कुर्यात्-किमेतासां कापालिनीनां समीपें प्रवजितेन ? इति । यद्वा कश्चिदुदीर्णमोहस्तामप्रावृतां दृष्ट्वा कर्मगुरुकतया प्रेरयेत् । साऽपि तत्रैव प्रतिबन्धं कुर्यात् प्रतिगमनादीनि वा विदध्यात् । 'डिण्डिमदोषाश्च' गर्भोत्पत्तिप्रभृतयो भवेयुः । यत एते नमाया दोषा अतोऽचेलया न भवितव्यम् । द्वितीयपदे संयत्योऽध्वनि स्तेनैर्विविक्तास्ततो न किमपि वस्त्रं भवेत् , आदिशब्दात् क्षिप्तचिचा यक्षाविष्टा वा वस्त्राणि परित्यजेत् , 15 एवमचेलाऽपि भवतीति ॥ ५९३९॥ सूत्रम् नो कप्पइ निग्गंथीए अपाइयाए हुंतए १७॥ नो कल्पते निम्रन्थ्याः 'अपात्रायाः' पात्ररहिताया भवितुमिति सूत्रार्थः ॥ अथ भाष्यम् गोणे साणे व्व वते, ओभावण खिसणा कुलघरे य ।। णीसह खइयलज्जा, सुहाए होति दिलुतो ॥ ५९४०॥ ____ पात्रकमन्तरेण यत्र तत्र समुद्देशनीयम् ततो लोको ब्रूयात्-यथा गौर्यत्रैव चारिं प्राप्नोति तत्रैवालज्जश्वरति, यथा वा श्वानो यत्रैव खल्पमप्याहारं लभते तत्रैव निस्त्रपो भुते, एवमेता अपि गो-श्वानसदृश्यो यत्रैव प्राप्नुवन्ति तत्रैव लोकस्य पुरतः समुद्दिशन्ति, अहो ! अमूभिर्गोवतं श्वानव्रतं वा प्रतिपन्नम् ; एवमपभाजना भवति । "खिसणा कुलघरे य" ति तास्तथाभुञ्जाना 25 दृष्ट्वा तदीयकुलगृहे गत्वा लोकः खिंसां कुर्यात् , यथा-युष्मदीया दुहितरः स्नुषा वा याः पूर्व चन्द्र-सूर्यकिरणैरप्यस्पृष्टगात्रास्ताः साम्प्रतं सर्वलोकपुरतो गा इव चरन्त्यो हिण्डन्ते । एवमुक्ते ते भूयस्ताः स्वगृहमानयन्ति । "नीसहूं" अत्यर्थं च 'खादितं' भक्षणं लोकस्य पुरतः कुर्वाणासु लोको ब्रूयात्-अहो! बहुभक्षका अमूः, स्त्रीणां च लज्जा विभूषणं सा चैतासां नास्तीति । अत्र च लज्जायां सुषादृष्टान्तो भवति । स च द्विधा-प्रशस्तोऽप्रशस्तश्च ॥ ५९४० ॥ 30 प्रशस्तं तावदाह उच्चासणम्मि सुण्हा, ण णिसीयइ ण वि य भासए उच्चं । णेव पगासे मुंजइ, गूहइ वि य णाम अप्पाणं ।। ५९४१ ॥ १ मनं-भूयो गृहवासाश्रयणं तद् आदिशब्दात् पार्श्वस्थादिगमनं वा विद° का० ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340