Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 305
________________ १५६८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ ब्रह्मरक्षाप्रकृते सूत्रम् १९ सूराभिमुहीए एगपाइयाए ठिच्चा आयावणाए आयावित्तए। कप्पइ से उवस्सयस्स अंतोवगडाए संघाडिपडिब द्धाए पलंबियबाहियाए समतलपाइयाए ठिच्चा । आयावणाए आयावित्तए १९ ॥ नो कल्पते निम्रन्थ्या बहिामस्य वा यावत् सन्निवेशस्य वा 'ऊर्द्धम्' ऊर्धाभिमुखौ बाहू 'प्रगृह्य प्रगृह्य' प्रकर्षण गृहीत्वा कृत्वेत्यर्थः सूर्याभिमुख्याः 'एकपादिकायाः' एकं पादमूर्द्धमाकुञ्चयापरमेकं पादं भुवि कृतवत्या एवंविधायाः स्थित्वा आतापनयाऽऽतापयितुम् । किन्तुकल्पते "से" तस्या उपाश्रयस्यान्तर्वगडायां प्रलम्बितबाहायाः समतलपादिकायाः स्थित्वा 10 आतापनया आतापयितुमिति सूत्रार्थः ॥ अथ भाष्यम् आयावणा य ति विहा, उक्कोसा मज्झिमा जहण्णा य । उकोसा उणिवण्णा, णिसण्ण मज्झा ठिय जहण्णा ।। ५९४५ ॥ .. आतापना त्रिविधा ---उत्कृष्टा मध्यमा जघन्या च । तत्रोत्कृष्टा निपन्ना, निपन्नः-शयितो - 'यां करोतीत्यर्थः । मध्यमा निषण्णस्य । जघन्या “ठिय" ति ऊर्द्धस्थितस्य ॥ ५९४५॥... 15 पुनरेकैका त्रिविधा तिविहा होइ निवण्णा, ओमत्थिय पास तइयमुत्तागा। उक्कोसुकोसा उक्कोसमज्झिमा उक्कोसगजहण्णा ॥ ५९४६ ॥ या निपन्नस्योत्कृष्टातापना सा त्रिविधा भवति-उत्कृष्टोत्कृष्टा उत्कृष्टमध्यमा उत्कृष्टजघन्या च । तत्र यद् अवाङ्मुखं निपत्य आतापना क्रियते सा उत्कृष्टोत्कृष्टा । या तु पार्श्वतः शयानः 20 क्रियते सा उत्कृष्टमध्यमा । या पुनरुत्तानशयनेन विधीयते सा 'तृतीया' उत्कृष्टजघन्या॥५९४६॥ मझुकोसा दुहओ, वि मज्झिमा मज्झिमाजहण्णा य । अहमुकोसाऽहममज्झिमा य अहमाहमा चरिमा ॥ ५९४७ ॥ १वा, यावत्करणात् खेटस्य वा कवटस्य वा मडम्बस्य वा इत्यादिपरिग्रहः, 'ऊर्ध्वम् कां० ॥ २ उपाश्रयस्य 'अन्तर्वगडायां' वगडा नाम-पाटकस्तस्याभ्यन्तरे 'सङ्घाटीप्रति. बद्धायाः' सवाटीग्रहणेनावग्रहानन्तकादीनामपि साध्वीयोग्यानां समुचितोपकरणानां परिग्रहः, तैः प्रतिबद्धा-सुप्रावृता या सा सङ्घाटीप्रतिवद्धा तस्याः, तथा प्रलम्बिते-लम्बमाने बाहे-बाहू यस्याः सा प्रलम्बितबाहा तस्याः, तथा समतलौ च तो पादौ च समतलपादौ अस्या स्त इति समतलपादिका तस्याः समतलपादिकायाः, एवंविधाया आर्यिकायाः "ठिच्च" त्ति 'स्थित्वा' ऊर्द्धस्थानेनावस्थायाऽऽतापनया आतापयितुमिति सूत्रार्थः कां ॥ ३त्यर्थः । "निसन्न मज्झ" त्ति मध्यमा निषण्णः, उपविष्टः सन् यां करोतीत्यर्थः । "ठिय जहन्न" त्ति स्थितस्य-ऊवस्थितस्य या आतापना सा जघन्या ॥ ५९४५॥ पुन' का० ॥४ ओमंथिय कां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340