Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 302
________________ 15 भाष्यगाथाः ५९३०-३७] पञ्चम उद्देशः । १५६५ एकाकिन्या भिक्षामटन्त्या एते दोषा भवन्ति-श्वानः समागत्य दशेत् , तरुणो वा कश्चिदुपसर्गयेत्, प्रत्यनीको वा हन्यात् , गृहत्रयादानीतायां भिक्षायामनुपयुज्य गृह्यमाणायामेषणाविशुद्धिर्न भवति, कोण्टल-विण्टलप्रयोगादिना च महाव्रतानि विराध्यन्ते । यत एते दोषाः अतः सद्वितीयया निम्रन्थ्या भिक्षादौ गमनं कर्तव्यम् ॥ ५९३३ ॥ द्वितीयपदमाह असिवादि मीससत्थे, इत्थी पुरिसे य पूतिते लिंगे। ____ एसा उ पंथ जयणा, भाविय वसही य भिक्खा य ॥ ५९३४ ॥ अशिवादिभिः कारणैः कदाचिदेकाकिन्यपि भवेत् तत्रेयं यतना-ग्रामान्तरं गच्छन्ती स्त्रीसार्थेन सह व्रजति, तदभावे पुरुषमिश्रेण स्त्रीसार्थेन, तदप्राप्तौ सम्बन्धिपुरुषसार्थेन व्रजति, अथवा यत् तत्र परिव्राजकादिलिङ्गं पूजितं तद् विधाय गच्छति । एषा पथि गच्छतां यतना भणिता । ग्रामे च प्राप्ता यानि साधुभावितानि कुलानि तेषु वसतिं गृह्णाति, भिक्षामपि तेष्वेव 10 कुलेषु पर्यटति ॥ ५९३४ ॥ सूत्रम् नो कप्पइ निग्गंथीए अचेलियाए हुंतए १६ ॥ नो कल्पते निर्मन्थ्याः 'अचेलिकायाः' वस्त्ररहिताया भवितुम् । एष सूत्रार्थः ॥ अथ भाष्यम् वुत्तो अचेलधम्मो, इति काइ अचेलगत्तणं ववसे । जिणकप्पो वऽजाणं, निवारिओ होइ एवं तु ॥ ५९३५ ॥ अचेलको धर्मो भगवता प्रोक्त इति परिभाव्य काचिदार्यिका अचेलकत्वं 'व्यवस्येत्' कर्तुमभिलषेत् , अतस्तन्निषेधार्थमिदं सूत्रं कृतम् । अचेलकत्वप्रतिषेधेन आर्याणां जिनकल्पोऽपि 'एवम्' अनेनैव सूत्रेण निवारितो मन्तव्यः ॥ ५९३५ ॥ कुतः ? इत्याह अजियम्मि साहसम्मी, इत्थी ण चए अचेलिया होउं । साहसमन्नं पि करे, तेणेव अइप्पसंगेण ॥ ५९३६ ॥ कुलडा वि ताव णेच्छति, अचेलयं किमु सई कुले जाया। धिक्कारंथुकियाणं, तित्थुच्छेओ दुलभ वित्ती ॥ ५९३७ ।। 'साध्वसे' भये तरुणादिकृतोपसर्गसमुत्थेऽजिते सति अचेलिका भवितुं 'स्त्री' निर्ग्रन्थी न25 शक्नुयात् । अथ भवति ततः 'तेनैव अतिप्रसङ्गेन' अचेलतालक्षणेन 'अन्यदपि' चतुर्थसेवादिकं साहसं कुर्यात् ॥ ५९३६ ॥ तथा कुलटाऽपि तावद् नेच्छत्यचेलताम् किं पुनः कुले जाता 'सती' साध्वी ? । अचेलतापतिपन्नानां चार्यिकाणां धिक्कारथुक्कितानां' लोकापवादजुगुप्सितानां तीर्थोच्छेदो दुर्लभा च वृत्तिर्भवति, न कोऽपि प्रव्रजति न वा भक्त-पानादिकं ददातीत्यर्थः ॥ ५९३७ ॥ गुरुगा अचेलिगाणं, समलं च दुगंछियं गरहियं च । १ °न्ती सा कारणतः एकाकिनी प्रथमतः स्त्रीसाथै कां ॥ २ °रधुकि कां० । रमुक्कि भा० ताटी• तामा० ॥ ३ रथुकि कां । रमुकि भा० ताटी ॥ 20 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340