________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ब्रह्मरक्षाप्रकृते सूत्रम् १७-१८
होइ परपत्थणिज्जा, विइयं अद्धाणमाईसु ॥ ५९३८ ॥ अत एव यद्यार्यिका अचेलिका भवन्ति ततस्तासां चतुर्गुरुकाः आज्ञादयश्च दोषाः । तथा चेलरहिता संयतीं 'समला' मलदिग्धदेहां दृष्ट्वा लोकः 'जुगुप्सितं' जुगुप्सां कुर्यात्-आः ! कष्टम् , इहलोके एवेदृश्यवस्था परलोके तु पापतरा भविष्यति, 'गर्हितं च' गहीं प्रवचनस्य 5 कुर्यात्-असारं सर्वमेतद् दर्शनमिति । अचेलिका च परस्य प्रार्थनीया भवति । अत्र द्वितीयपदमध्वादिषु विविक्तानां मन्तव्यम् ॥ ५९३८ ॥ अपि च
पुणरावत्ति निवारण, उदिण्णमोहो व दगु पेल्लेजा।
पडिबंधो गमणाई, डिंडियदोसा य निगिणाए ॥ ५९३९ ॥ अचेलामार्यां दृष्ट्वा प्रव्रज्याभिमुखानामपि कुलस्त्रीणां पुनरावृत्तिर्भवति, प्रव्रज्यां न गृह्णीयुरि10 त्यर्थः । अन्यो वा कश्चिद् निवारणं कुर्यात्-किमेतासां कापालिनीनां समीपें प्रवजितेन ?
इति । यद्वा कश्चिदुदीर्णमोहस्तामप्रावृतां दृष्ट्वा कर्मगुरुकतया प्रेरयेत् । साऽपि तत्रैव प्रतिबन्धं कुर्यात् प्रतिगमनादीनि वा विदध्यात् । 'डिण्डिमदोषाश्च' गर्भोत्पत्तिप्रभृतयो भवेयुः । यत एते नमाया दोषा अतोऽचेलया न भवितव्यम् । द्वितीयपदे संयत्योऽध्वनि स्तेनैर्विविक्तास्ततो न किमपि वस्त्रं भवेत् , आदिशब्दात् क्षिप्तचिचा यक्षाविष्टा वा वस्त्राणि परित्यजेत् , 15 एवमचेलाऽपि भवतीति ॥ ५९३९॥ सूत्रम्
नो कप्पइ निग्गंथीए अपाइयाए हुंतए १७॥ नो कल्पते निम्रन्थ्याः 'अपात्रायाः' पात्ररहिताया भवितुमिति सूत्रार्थः ॥ अथ भाष्यम्
गोणे साणे व्व वते, ओभावण खिसणा कुलघरे य ।।
णीसह खइयलज्जा, सुहाए होति दिलुतो ॥ ५९४०॥ ____ पात्रकमन्तरेण यत्र तत्र समुद्देशनीयम् ततो लोको ब्रूयात्-यथा गौर्यत्रैव चारिं प्राप्नोति तत्रैवालज्जश्वरति, यथा वा श्वानो यत्रैव खल्पमप्याहारं लभते तत्रैव निस्त्रपो भुते, एवमेता अपि गो-श्वानसदृश्यो यत्रैव प्राप्नुवन्ति तत्रैव लोकस्य पुरतः समुद्दिशन्ति, अहो ! अमूभिर्गोवतं श्वानव्रतं वा प्रतिपन्नम् ; एवमपभाजना भवति । "खिसणा कुलघरे य" ति तास्तथाभुञ्जाना 25 दृष्ट्वा तदीयकुलगृहे गत्वा लोकः खिंसां कुर्यात् , यथा-युष्मदीया दुहितरः स्नुषा वा याः पूर्व
चन्द्र-सूर्यकिरणैरप्यस्पृष्टगात्रास्ताः साम्प्रतं सर्वलोकपुरतो गा इव चरन्त्यो हिण्डन्ते । एवमुक्ते ते भूयस्ताः स्वगृहमानयन्ति । "नीसहूं" अत्यर्थं च 'खादितं' भक्षणं लोकस्य पुरतः कुर्वाणासु लोको ब्रूयात्-अहो! बहुभक्षका अमूः, स्त्रीणां च लज्जा विभूषणं सा चैतासां नास्तीति ।
अत्र च लज्जायां सुषादृष्टान्तो भवति । स च द्विधा-प्रशस्तोऽप्रशस्तश्च ॥ ५९४० ॥ 30 प्रशस्तं तावदाह
उच्चासणम्मि सुण्हा, ण णिसीयइ ण वि य भासए उच्चं ।
णेव पगासे मुंजइ, गूहइ वि य णाम अप्पाणं ।। ५९४१ ॥ १ मनं-भूयो गृहवासाश्रयणं तद् आदिशब्दात् पार्श्वस्थादिगमनं वा विद° का० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org