________________
भाष्यगाथाः ५९०८-१६] पञ्चम उद्देशः ।
१५५९ थोवं बहुम्मि पडियं, उसिणे सीतोदगं ण उज्झंती ।
हंदि हु जाव विगिंचति, भावेजति ताव तं तेणं ॥ ५९१२ ॥ बहुके पूर्वगृहीते स्तोकं पतितमित्यत्र यदि उष्णे बहुनि शीतोदकं स्तोकं पतितं तदा नोज्झन्ति । कुतः ? इत्याह-'हन्दि' इत्युपप्रदर्शने, यावद् विविनक्ति तावत् 'तत्' स्तोकं शीतोदकं तेन' बहुकेनोष्णेन 'भाव्यते' परिणतं क्रियते, ततः परिभोक्तव्यं तदिति भावः ॥५९१२।। ।
___जं पुण दुहतो उसिणं, सममतिरेगं व तक्खणा चेव ।
मज्झिल्लभंगएसुं, चिरं पि चिट्टे बहुं छूढं ॥ ५९१३ ॥ यत् पुनर्द्विधाऽप्युष्णम्-उष्णे उष्णं पतितमित्यर्थः तत् परिणामतः परस्परं 'सम' तुल्यं भवेद् ‘अतिरिक्तं वा' द्वयोरेकतरमधिकतरं तत्रापि तत्क्षणादेव सचित्तभावो नापगच्छतीति' वाक्यशेषः । यौ तु मध्यमौ द्वौ भङ्गौ 'उष्णे शीतं पतितम् , शीते वा उष्णं पतितम्' 10 इतिलक्षणौ तयोः स्तोके बहु प्रक्षिप्तं चिरमपि सचित्तं तिष्ठेत् , ततस्तदपि क्षिप्रं चिरेण वा विवेचनीयम् ॥ ५९१३ ॥ अथोदकस्यैव परिणमनलक्षणमाह--
वण्ण-रस-गंध-फासा, जह दव्वे जम्मि उक्कडा होति । [उ.नि.२०२]
तह तह चिरं न चिट्ठइ, असुमेसु सुभेसु कालेणं ॥ ५९१४ ॥ यस्मिन् द्रव्ये यथा यथा वर्ण-गन्ध-रस-स्पर्शा उत्कटा उत्कटतरा भवन्ति तथा तथा तेन 15 द्रव्येण सह मिश्रितमुदकं चिरं न तिष्ठति, क्षिप्रं क्षिप्रतरं परिणमतीति भावः । किमविशेषेण ? न इत्याह-येऽशुभा वर्णादय उत्कटास्तेष्वेव क्षिप्रं परिणमति, ये तु शुभा वर्णादयस्तेषूत्कटेषु कालेन परिणमति, चिरादित्यर्थः ॥ ५९१४ ॥ अत्रेदं निदर्शनम्
जो चंदणे कडुरसो, संसट्ठजले य दूसणा जा तु ।
सा खलु दगस्स सत्थं, फासो उ उवग्गहं कुणति ॥ ५९१५ ॥ 20 ___ इह तण्डुलोदकं चन्दनेन कापि मिश्रितं तत्रै च चन्दनस्य यः कटुको रसः स तण्डुलोदकस्य शस्त्रं परं यस्तदीयः स्पर्शः शीतलः स जलस्योपग्रहं करोतीति कृत्वा चिरेण तत् परिणमति । एवं संसृष्टजलस्यापि या 'दूषणा' अम्लरसता सा उदकस्य शस्त्रं स्पर्शस्तु शीतलत्वादुपग्रहकारी अतश्चिरेण परिणमति ॥ ५९१५ ॥
घयकिट्ट-विस्सगंधा, दगसत्थं मधुर-सीतलं ण घतं ।
कालंतरमुप्पण्णा, अंबिलया चाउलोदस्स ॥ ५९१६ ॥ घृतस्य सबन्धी यः किट्टो यश्च विस्रो गन्धः तावुदकस्य शस्त्रम् , यत् तु रसेन मधुरं स्पर्शेन च शीतलं घृतं तद् उपग्रहं करोतीति शस्त्रं न भवति, अतश्चिरात् परिणमति ।
१ति अतः परिष्ठापनीयं तदिति वाक्य कां० । “दुहतो णाम पुव्वगहितं पि उसिणं जंपि पडितं तं पि उसिणं, तं परिणामतो तुलं अतिरेगं वा एगतरं तस्मिन्नेव क्षणे न सचित्तभावो व्यपगच्छति इति वाक्यशेषः, ताधे सिग्धं चेव विगिचिजति ।" इति चूर्णी विशेषचूर्णौ च ॥ २ द्रव्ये “जह" त्ति उत्तरत्र "तह तह" त्ति वीप्साया निर्देशादिहापि वीप्सा द्रष्टव्या, ततोऽयमर्थः-यथा यथा कां० ॥ ३ °त्र 'चन्दने' षष्ठीसप्तम्योरथै प्रत्यभेदात् चन्द कां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org