SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ १५५८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ पानक०प्रकृते सूत्रम् १२ ____ एमेव सेसगाई, रूबीदव्याइँ सव्वाइं ॥ ५९०८ ॥ ___ तापोदकं स्वभावादेवोष्णम् , 'शेषा आपः' अप्कायद्रव्याणि शीतानि 'मिश्राणि वा' शीतोष्णोभयखभावानि मन्तव्यानि । एवमेव 'शेषाणि' अप्कायविरहितानि यानि सर्वाण्यपि रूपि द्रव्याणि तानि कानिचिदुष्णानि यथा अमिः, कानिचित् शीतानि यथा हिमम् , कानिचित् 5तु शीतोष्णानि यथा पृथिवी ॥ ५९०८॥ एएण सुत्त न गतं, जो कायगताण होइ परिणामो । सीतोदमिस्सियम्मि उ, दवम्मि उ मग्गणा होति ॥ ५९०९॥ य एष 'कायगतानाम्' आहारितानां द्रव्याणां परिणाम उक्तो नैतेन सूत्रं गतम् , किन्तु 'शीतोदकमिश्रितेन' सचित्तोदकमिश्रेण द्रव्येणेहाधिकारः। तत्र चेयं मार्गणा भवति ॥५९०९॥ 10 दुहतो थोवं एकेकएण अंतम्मि दोहि वी बहुगं ।। भावुगमभावुगं पि य, फासादिविसेसितं जाणे ॥ ५९१० ॥ इह पूर्वगृहीते द्रव्ये यदा शीतोदकं पतति तदा इयं चतुर्भङ्गी-"दुहतो थोवं" ति स्तोके स्तोकं पतितमिति प्रथमो भङ्गः । “एक्केक्कएण" त्ति स्तोके बहुकं पतितमिति द्वितीयः, बहुनि स्तोकं पतितमिति तृतीयः । “अंतम्मि दोहि वी बहुगं" ति बहुनि बहु पतितमिति चतुर्थः । 15 यद् द्रव्यं पतति यत्र वा पतति तद् भावुकमभावुकं वा स्पर्शादिविशेषितं जानीयात् । किमुक्तं भवति?--स्पर्श-रस-गन्धैरुत्कटतया यद् अपराणि द्रव्याणि खस्पर्शादिभिर्भावयति-परिणामयति तद् भावुकम् , तद्विपरीतमभावुकम् । ये च स्तोक-बहुपदाभ्यां चत्वारो भनाः कृतास्तेषु प्रत्ये. कममी चत्वारो भङ्गाभवन्ति-उष्णे उष्णं पतितम् १ उष्णे शीतं पतितम् २ शीते उष्णं पतितम् ३ शीते (ग्रन्थानम्-६०००। सर्वग्रन्थानम्-३९८२५) शीतं पतितम् ४ ॥५९१०॥ 20 एतेषु विधिमाह चरमे विगिंचियव्वं, दोसु तु मज्झिल्ल पडिऍ भयणा उ । खिप्पं विविचियव्वं, मायविमुक्केण समणेणं ॥ ५९११ ॥ चरमं नाम-यत् शीते शीतं पतितम् तत् पुनः स्तोके वा स्तोकं पतितं बहुके वा बहुकं पतितं भवेद् उभयमपि क्षिप्रं 'विवेक्तव्यं परिष्ठापयितव्यम् । 'द्वयोस्तु मध्यमयोः भङ्गयोः' 25 'उष्णे शीतं पतितम् , शीते उणं पतितम्' इतिलक्षणयोर्वक्ष्यमाणा भजना भवति । यः पुनरुष्णे उष्णं पतितमिति प्रथमो भङ्गः तत्र तत्क्षणादेव सचित्तभावो नापगच्छतीति कृत्वा क्षिप्रमेव मायाविमुक्तेन श्रमणेन तद् विवेचनीयम् । मायाविमुक्तग्रहणेनेदं ज्ञापयति-शीघ्रं परिष्ठापयितुकामोऽपि यावत् स्थण्डिलं गच्छति तावत् तद् अचित्तीभूतं ततः परिभुते न परिष्ठापयति । अथ मातृस्थानेन मन्दं मन्दं गच्छति चिन्तयति च-तिष्ठतु तावत् पश्चात् परिणतं परिभोक्ष्ये; 30 एवं मायां कुर्वतः स्थण्डिलादर्वाक् परिणतमपि न कल्पते ॥ ५९११ ॥ अथ मध्यमभङ्गद्वये भजनामाह१°न्तु विनेयव्युत्पादनार्थमिदं सर्व व्याख्यातम् । अत्र तु 'शीतो' का० ॥ २ तामेव दर्शयति इत्यवतरणं कां० ॥ ३ जनां व्याख्यानयन्नाह कां ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy