________________
भाष्यगाथाः ५९००-७] पञ्चम उद्देशः।
१५५७ आयामा-ऽम्लकालिकादीनि द्रव्याणि यद्युष्णानि ततो 'विपाके' परिणामेऽपि तान्युष्णान्येव भवन्तीति कृत्वा तृतीयो भङ्गः । यानि पुनरुष्णोदक-पेयादीनि द्रव्याणि तान्युष्णान्यपि 'तनुं शरीरं गतानि शीतानि भवन्तीत्यनेन प्रथमो भङ्गो व्याख्यातः ॥ ५९०३ ॥ अथ द्वितीयभङ्गं व्याचष्टे
सुत्ताइ अंबकंजिय-घणोदसी-तेल्ल-लोण-गुलमादी।
सीता वि होति उसिणा, दुहतो वुण्हा व ते होंति ॥ ५९०४ ॥ सुतं-मदिराखोलः देशविशेषप्रसिद्धो वा कश्चिद् द्रव्यविशेषः, तदादीनि यानि द्रव्याणि, यच्च अम्लं काञ्जिकम् , अम्ला च घनविकृतिः, अम्लं च उंदश्चित्-तक्रम् , यच्च तैलं लवणं गुडो वा, एवमादीनि द्रव्याणि शीतान्यपि परिणामत उष्णानि भवन्तीति द्वितीयभङ्गेऽवतरन्ति । अथ तान्युष्णानि ततः 'उष्णानि' उष्णपरिणामानीति तृतीये भङ्गे प्रतिपत्तव्यानीति 10 ॥ ५९०४ ॥ आह कतिविधः पुनः परिणामः ? इति उच्यते
परिणामो खलु दुविहो, कायगतो बाहिरो य दव्वाणं ।
सीओसिणत्तणं पि य, आगंतु तदुब्भवं तेसि ॥ ५९०५॥ द्रव्याणां परिणामः द्विविधः-कायगतो बाह्यश्च । तत्र कायेन-शरीरेणाहारितानां द्रव्याणां यः शीतादिकः परिणामः स कायगतः, यः पुनरनाहारितानां स बाह्यः । स च बाह्यः परिणामः 15 शीतो वा स्यादुष्णो वा । तदपि च शीतोष्णवं द्रव्याणां द्विधा-आगन्तुकं तदुद्भवं च । ५९०५ ।। उभयमपि व्याचष्टे
साभाविया व परिणामिया व सीतादतो तु दव्वाणं ।
असरिससमागमेण उ, णियमा परिणामतो तेसिं ॥ ५९०६ ॥ खाभाविका वा परिणामिका वा शीतादयः पर्याया द्रव्याणां भवन्ति । तत्र खाभाविका 20 यथा-हिमं खभावशीतलम् , तापोदकं खभावादेवोष्णम् । परिणामिकास्तु पर्याया द्रव्यान्तरादिबाह्यकारणजनिताः, तथा चाह-"असरिस" इत्यादि, असदृशेन वस्तुना सह यः समागमः-मीलकस्तेन नियमात् 'तेषां' द्रव्याणां 'परिणामः' पर्यायान्तरगमनं भवति, यथाउदकादेः शीतलस्याप्यमितापेन आदित्यरश्मितापेन वा उष्णतागमनम् ॥ ५९०६ ॥ एतदेव सुव्यक्तमाह
25 सीया वि होति उसिणा, उसिणा वि य सीयगं घृणरुवेति ।
दन्वंतरसंजोगं, कालसभा च आसज ॥ ५९०७ ॥ द्रव्यान्तरेण-अमि-जलादिना सयोग-सम्बन्धं कालस्य च-ग्रीष्म-हेमन्तादेः खभावमासाद्य शीतान्यपि द्रव्याण्युष्णानि भवन्ति उष्णान्यपि च शीततां पुनरुपयान्ति ॥ ५९०७ ।। एष आगन्तुकः परिणामो मन्तव्यः । अयं पुनस्तदुद्भवः
30 तावोदगं तु उसिणं, सीया मीसा य सेसगा आवो। १°हतो उण्हा ताभा० ॥ २ "उदसी तकं" इति चूर्णी विशेषचूर्णौ च ॥ ३ °कं राजगृहनगरभावि स्वभा' का० ॥ ४ पुण भयंति तामा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org