SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ १५५६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ पानक०प्रकृते सूत्रम् १२ गृहीते च पानके 'प्रलोकना' प्रत्युपेक्षणा पिण्डस्येव मन्तव्या । तच्च उदकं त्रिभिः कारणैर्दद्यात् । तद्यथा-"अणभोगा" इत्यादि । अनाभोगेन काचिदगारी एकत्रैव काञ्जिकं पानीयं चास्तीति कृत्वा 'काञ्जिकं दास्यामि' इति बुद्ध्या विस्मृतिवशाजलं दद्यात् । अनुकम्पया वा ग्रीष्मसमये तृषाकान्तं साधुं दृष्ट्वा 'शीतलं जलं पिबेद्' इति बुद्ध्या काचिदुदकं दद्यात् । 5 प्रान्ततया प्रत्यनीकतया वा काचिद् भिक्षुकाधुपासिका 'एतेषामुदकं न कल्पते अतो व्रतभङ्गं करोमि' इति बुद्ध्या साधूनामुदकं दद्यात् ॥ ५८९९ ॥ अथात्रैव विधिमाह सुद्धम्मि य गहियम्मी, पच्छा णाते विगिंचए विहिणा। मीसे परूविते उण्ह-सीतसंजोग चउभंगो ॥ ५९००॥ यदि तदुदकं 'शुद्धे' रिक्ते प्रतिग्रहे गृहीतं 'पश्चाच्च' ग्रहणानन्तरं ज्ञातम् यथा-उदक10मिदम् । ततः 'विधिना' वक्ष्यमाणेन 'विविञ्च्यात्' परिष्ठापयेत् । “मीसे" ति मिश्रं नाम-यत्र प्रतिग्रहे पूर्वमन्यद् द्रवं गृहीतं पश्चाच्च पानीयं पतितम् एतद् मिश्रमुच्यते, तत्र 'मिश्रे' उष्णशीतसंयोगे चतुर्भङ्गयाः प्ररूपणा कर्तव्या ॥ ५९०० ॥ .. तत्र रिक्ते प्रतिग्रहे यद् गृहीतं तस्यायं परिष्ठापनाविधिः तत्थेव भायणम्मी, अलब्भमाणे व आगरसमीवे । 15 सपडिग्गहं विगिचइ, अपरिस्सव उल्लभाणे वा ॥ ५९०१ ॥ यतो भाजनादविरतिकया दत्तं तत्रैव तदुदकं प्रक्षिपति । अथ सा तत्र प्रक्षेप्तुं न ददाति तत एवमलभ्यमाने सा पृच्छयते-कुतस्त्वयेदमानीतम् ! । ततो यस्मात् कूप-सरःप्रभृतेराकरादानीतं तस्य समीपे गत्वा परिष्ठापनिकानियुक्तिभणितेन (गा० ४ आव० हारि० टीका पत्र ६१९-२०) विधिना परिष्ठापयेत् । अथवा सप्रतिग्रहमपि क्षीरद्रुमस्य च्छायायामेकान्ते 20 स्थापयति । अथ प्रतिग्रहोऽन्यो न विद्यते ततो यद् अपरिश्रावि घटादिकमाई जलभावितं भाजनं तत्र प्रक्षिपति ॥ ५९०१॥ अथ पूर्वमन्यद्रव्ये गृहीते पतितं तत इयं चतुर्भङ्गी दव्यं तु उण्हसीतं, सीउण्डं चेव दो वि उण्हाई । दुण्णि वि सीताइँ चाउलोद तह चंदण घते य ॥ ५९०२॥ इह द्रव्यं चतुर्धा, तद्यथा-किञ्चिदुष्णं शीतपरिणामम् १ अपरं शीतमुष्णपरिणामम् २ 25 अन्यदुष्णमुष्णपरिणामम् ३ अपरं शीतं शीतपरिणामम् ४ । अथासन्नत्वात् प्रथमं चतुर्थभङ्गं व्याख्याति-"चाउलोद" इत्यादि । तण्डुलोदक-चन्दन-घृतादीनि द्रव्याणि 'शीतानि' शीतपरिणामानि ॥ ५९०२ ॥ तृतीयभङ्गमाह आयाम अंबकंजिय, जति उसिणाणुसिण तो विवागे वी ।. उसिणोदग-पेजाती, उसिणा वि तणुं गता सीता ॥ ५९०३ ॥ १न्ते 'विविनक्ति' परिष्ठापयति का० ॥ २ °था-"उण्हसीयं" ति “सूचनात् सूत्रम्" इति कृत्वा किञ्चिका० ॥ ३'म् । इह तृतीयभङ्गे स्वभावपरिणामलक्षणे द्वे अपि वस्तुनी उष्णे, चतुर्थभने तु द्वे अपि शीते । अथा' कां ॥ ४ शीतखभावानि शीतपरिणामानि भवन्तीति चतुर्थो भङ्गः॥५९०२॥ अथ प्रथम-तृतीयभङ्गावाह का० ॥५°णा उसिण ताभा•॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy