Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
भाष्यगाथाः ५८९३-९९ ]
पञ्चम उद्देशः ।
पानक विधिप्रकृत म्
सूत्रम् -
निग्गंथरस य गाहावइकुलं पिंडवायपडियाए अणुप्पविस्स अंतोपडिग्गहगंसि दगे वा दगरए वा दगफुसिए वा परियावज्जेज्जा, से य उसिणे भोयणजाते भोक्तव्वे सिया; से य सीए भोयणजाते तं नो अपणा भुंजेजा, नो अन्नेसिं दावए, एगंते बहुफासुए पदेसे परिवेयव्वे सिया १२ ॥
अस्य सम्बन्धमाह-
आहारविही वृत्तो, अयमण्णो पाणगस्स आरंभो ।
कायच काssहारे, कायचउक्कं च पाणम्मि ।। ५८९७ ॥
Jain Education International
१५५५
5
आहारविधिः पूर्वसूत्रे उक्तः, अयं पुनरन्यः पानकस्य विधिप्रतिपादनाय सूत्रारम्भः क्रियते । तथा आहारेऽनन्तरसूत्रे प्राणग्रहणेन त्रसा बीजग्रहणेन वनस्पतिकाय: रजोग्रहणेन पृथिव्यग्निकाय गृहीताविति काय चतुष्कमुक्तम् । इहापि पानके कायचतुष्कमुच्यते- -तत्र शीतोदकमष्कायः, उष्णोदकमग्निकायः, नालिकेरपानकादिकं वनस्पतिकायः, दुग्धं त्रसकायः । एवं 15 चत्वारोऽपि काया अत्रापि सम्भवन्तीति ।। ५८९७ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या -
For Private & Personal Use Only
10
निर्ग्रन्थस्य गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टस्यान्तः प्रतिग्रहे भक्त - पानमध्ये 'दकं वा' प्रभूता कायरूपं 'दकरजो वा' उदकबिन्दुः 'दकस्पर्शितं वा' उदकशीकराः पर्यापतेयुः । तच्चोष्णं भोजनजातं ततो भोक्तव्यं स्यात् । अथ शीतं तद् भोजनजातं ततस्तन्नात्मना भुञ्जीत, नान्येषां दद्यात्, एकान्ते बहुप्राशु के प्रदेशे परिष्ठापयितव्यं स्यादिति सूत्रार्थः ॥ अथ भाष्यम् – 20 परिमाणे नाणत्तं, दगबिंदु दगरयं वियाणाहि ।
सीभरमो दगसितं, सेसं तु दगं दव खरं वा ।। ५८९८ ।।
1
दकरः प्रभृतीनां परिमाणकृतं नानात्वम् । तथाहि — यस्तावद् दकबिन्दुस्तं दकरजो विजानीहि । ये तु 'सीभरा : ' पानीयेऽन्यत्र प्रक्षिप्यमाणे उदकसीकरा आगत्य प्रपतन्ति ते द स्पर्शितम् । 'शेषं तु' यत् प्रभूतमुदकं तद् दकमिति भण्यते । तच्च द्रवं वा खरं वा भवति 25 इति विषमपदव्याख्यानं भाष्यकृता कृतम् ॥ ५८९८ ॥ सम्प्रति निर्युक्तिविस्तरःएमेव वितियसुत्ते, पलोगणा गिण्हणे य गहिते य ।
अणभोगा अणुकंपी, पंतत्ता वा देगं देखा ।। ५८९९ ॥ अधस्तनाहारसूत्रादिदं द्वितीयसूत्रमुच्यते । तत्र द्वितीयसूत्रेऽप्येवमेव विधिर्द्रष्टव्यैः । ग्रहणे १पा, पडिणीता वा दगं कां० ॥ २ दवं दे" ताभा० ॥ ३ 'व्यः । कथम् ? इति अत आह - उदकस्य ग्रहणे कां० ॥
बृ० १९६
www.jainelibrary.org
Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340