Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 291
________________ १५५४ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ आहार०प्रकृते सूत्रम् ११ असिवादी संसत्ते, संकप्पादी पदा तु जह सुज्झे । संसह सत्तु चाउल, संसत्तऽसती तहा गहणं ॥ ५८९३ ॥ अशिवादिभिः कारणैर्यथा संसक्ते देशे सङ्कल्पादीनि पदानि कुर्वाणोऽपि शुध्यति तथा तत्र गतो यदि असंसक्तं पानकं न लभते ततः संसृष्टपानकं तन्दुलोदकं वा संसक्तं सक्तून् वा 5 संसक्तान् तथैव गृह्णीयात् ।। ५८९३ ॥ तेषां पुनः गृहीतानामयं विधिः ओवग्गहियं चीरं, गालणहेउं घणं तु गेहति ।। तह वि य असुज्झमाणे, असती अद्धाणजयणा उ ॥ ५८९४ ॥ औपग्रहिकं 'घन' निश्छिद्रं चीवरं तेषां संसक्तपानकानां गालनाहेतोगुहन्ति । तथापि' तेनापि गाल्यमानं यदि न शुध्यति न वा तण्डुलधावनादिकमपि लभ्यते, ततो या प्रथमोदेश10 केऽध्वनि गच्छतां "तुवरे फले य रुक्खे०" (गा० २९२२) इत्यादिना पानकयतना भणिता सा कर्तव्या ॥ ५८९४ ॥ अथ दधिविषयं विधिमाह-- संसत्त गोरसस्सा, ण गालणं णेव होइ परिभोगो। कोडिदुग-लिंगमादी, तहि जयणा णो य संसत्तं ॥ ५८९५ ॥ यदि कापि संसक्तो गोरसो लभ्यते ततस्तस्य न गालनं न वा परिभोगः कर्तव्यः, किन्तु 15"कोडिदुग-लिंगमाइ" त्ति कोटिद्वयेन-विशोधिकोट्या अविशोधिकोट्या च भक्त-पानग्रहणे यतितव्यं यावदाधाकर्मापि गृह्यते, अन्यलिङ्गमपि कृत्वा भक्त-पानमुत्पाद्यते, न पुनः संसक्तो गोरसो ग्रहीतव्यः ।। ५८९५॥ अथ "इयराणि य” (गा० ५८९१) इत्यादिपश्चाई व्याचष्टे सागारिय सव्वत्तो, णत्थि य छाया विहम्मि दरे वा । 20 वेला सत्थो व चले, ण णिसीय-पमञ्जणे कुज्जा ।। ५८९६ ॥ अध्वनि गच्छता सर्वतोऽपि सागारिकम् , छाया च तत्र नास्ति, अस्ति वा परं दूरे, तत्र च गच्छतां वेलाऽतिक्रामति, सार्थो वा चलति, तत्र उष्णेऽपि भूभागे परिष्ठापयेत् । यत्र चोपविशतः सागारिकं शङ्कादयो वा दोषाः अशुचिकं वा स्थानं तत्र निषदन-प्रमार्जने अपि न कुर्यात् ॥ ५८९६ ॥ 25 ॥ आहारविधिप्रकृतं समाप्तम् ॥ १तत एवमसंसक्तस्य पानकस्यासति संसक्तमपि संसृष्टपानकं तन्दुलोदकं वा संसतान् वा सक्तून् तथैव गृह्णीयात् । इह पानकाधिकारे सक्तुग्रहणं संसक्तत्वसाम्यात् प्रसङ्गायातमिति कृत्वा न दुष्टम् ॥ ५८९३॥ तेषां पुनः संसक्तपानकानां गृही' का० ॥ २°भ्यते, तत एवमशुध्यति 'असति वा' अविद्यमाने पानकजाते प्राप्यमाणे इत्यर्थः प्रथमो को० ॥ ३ भागे सागारिकस्य पश्यतोऽपि परि° का० ॥ Jain Education International For Private & Personal Use Only . www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340