Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
१५५२
सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूने [आहार०प्रकृते सूत्रम् ११
गिहत्थभाणेसु व पेहिऊणं, मत्ते व सोहेत्तुवरि छुभंति ॥ ५८८४ ॥ ___ आयामं संसृष्टपानकमुष्णोदकं वा 'निवृतं वा' प्राशुकीभूतं 'चाउलोदकं' तण्डुलधावनं गृहन्ति । एतेषामभावे तदेव काञ्जिकं गृहस्थभाजनेषु प्रत्युपेक्ष्य मात्रके वा शोधयित्वा यद्यसंसक्तं तदा प्रतिग्रहोपरि प्रक्षिपन्ति ॥ ५८८४ ॥ द्वितीयपदमाह
बिइयपद अपेक्खणं तू, गेलण्ण-ऽद्धाण-ओममादीसु ।
तं चेव सुक्खगहणे, दुल्लभ दर दोसु वी जयणा ॥ ५८८५॥ द्वितीयपदे ग्लाना-ऽध्वा-ऽवमादिषु कारणेषु 'अप्रेक्षणं' पिण्डस्याप्रत्युपेक्षणमपि कुर्यात् । 'तदेव च' ग्लानत्वादिकं द्वितीयपदं 'शुष्कस्य' ओदनस्य ग्रहणे मन्तव्यम् । दुर्लभं वा द्रवं
पश्चान्न लभ्यते ततः पूर्वं तद् गृहीतमिति कृत्वा नास्ति तद् भाजनं यत्र पृथक् शुष्कं गृह्यते । 10 "दोसु वी जयण" त्ति 'द्वयोरपि' अप्रत्युपेक्षणा-शुष्कग्रहणयोरेषा यतना कर्तव्या । एर्षे सङ्ग्रहगाथासमासार्थः ॥ ५८८५ ॥ साम्प्रतमेनामेव विवृणोति
अच्चाउर सम्मूढो, वेलाऽतिक्कमति सीयलं होइ।
असढो गिण्हण गहिते, सुज्झेज अपेक्खमाणो वि ।। ५८८६ ॥ कश्चिदतीव 'आतुरत्वेन' ग्लानत्वेन 'सम्मूढः' सम्मोह-समुद्धातमुपगतस्ततो यावत् प्रत्युपेक्षते 15 तावद् वेलाऽतिक्रामति शीतलं वा तावता कालेन भवति, तत एवम् 'अशठः' विशुद्धभावो गृह्मानो वां गृहीते वा पिण्डे प्रत्युपेक्षणामकुर्वाणोऽपि 'शुध्येत' प्रायश्चित्तभाग् न भवेत् ॥५८८६॥"
ओमाणपेल्लितो वेलऽतिकमो चलिउमिच्छति भयं वा ।
एवंविहे अपेहा, ओमे सतिकाल ओमाणे ॥ ५८८७ ॥ अध्वनि वा गच्छतां सार्थः 'अवमानप्रेरितः' प्रभूतभिक्षाचराकीर्णः, यावच्च प्रत्युपेक्षते तावद् 20 वेलातिक्रमो भवति, स च सार्थश्चलितुमिच्छति, पृष्ठतो गच्छतां च भयम् , तत एवंविधे
कारणेऽप्रेक्षा, प्रत्युपेक्षामन्तरेणापि पिण्डं गृह्णीयादित्यर्थः । अवमे च प्रत्युपेक्षमाणानां 'सत्कालः' भिक्षाया देशकालः स्फिटति सूर्यो वाऽस्तमेति अवमानं वा-भिक्षाचराकीर्णं ततोऽप्रत्युपेक्षितमपि गृह्णीयात् ।। ५८८७ ॥ परम्--.
तो कुजा उवओगं, पाणे दहण तं परिहरेजा। 25 कुजा ण वा वि पेहं, सुज्झइ अतिसंभमा सो तु ॥ ५८८८ ॥ ___ यदि अनन्तरोक्तकारणैः प्रत्युपेक्षणं न भवति तत उपयोगं कुर्यात् । कृते चोपयोगे यदि प्राणिनः पश्यति ततस्तान् दृष्ट्वा तद्' भक्त-पानं परिहरेत् । अथवा अत्यातुरः ‘प्रेक्षाम्' उपयोगमपि च कुर्याद् वा न वा । अनुपयुञ्जानोऽपि चातिसम्भ्रमादसौ साधुः शुध्यति । यच्चाधस्तादुक्तं
१'आयामम्' अवस्रावणं संसृष्टपानकं-गोरसभाजनधावनम् उष्णोदकं वा-उदृत्तत्रिदण्डं 'निर्वृ का० ॥ २ अथात्रैव द्विती' कां० ॥ ३ शुष्कम्-ओदनं गृह्यते, अतस्तन्मध्य एव तद् गृह्णीयात् । "दोसु का ० ॥ ४ प नियुक्तिगाथा का० ॥ ५भावितं ग्लानत्वे द्वितीयपदम् । अथाऽध्वा-ऽवमयोस्तदेव भावयति इलवतरणं कां ॥ ६ 'प्रेक्षा' प्रत्युपेक्षणाम् उप कां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340