Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 287
________________ सागारिय उन्ह ठिए, पमञ्जणा सत्तुग दवे य ।। ५८७७ ।। तस्मात् तद् जन्तुसंसक्तमनन्तरोक्त क्षिप्रकालमध्य एव विवेचनीयम् । यदि च वसतिरासन्ना 10 ततस्तत्र गत्वा परित्यक्तव्यम् । अथ दूरे वसतिः ततः शून्यगृहादिषु यतनया परिष्ठापयति । अथ सागारिके पश्यति उष्णे वा भूभागे 'स्थितो वा' ऊर्द्धस्थितः परिष्ठापयति ततो वक्ष्यमाणं प्रायश्चित्तम् । यत्र च परिष्ठाप्यते तत्र प्रमार्जना कर्तव्या । एवमोदनस्य विधिरुक्तः । सक्तूनां द्रवस्य चैवमेवाल्पसागारिके प्रमृज्य छायायां परिष्ठापनं विधेयम् ॥ ५८७७ ॥ इदमेव व्याचष्टे - जावई काले वसहिं, उवेति जति तात्र ते ण विद्दति । तं पि अणुहमदवं तो, गंतूणमुवस्सए एडे ॥ ५८७८ ।। यावता कालेन वसतिमुपैति तावता कालेन यदि 'ते' प्राणिनः 'न विद्वान्ति' न विनश्यन्ति तदा तद् वसतिं नीयते । तदप्यनुष्णमद्रवं च यदि भवति ततः प्रतिश्रयं नेतव्यम् । किमुक्तं भवति ? - यदि उष्णः कूरो द्रवं वा संसक्तं ततः प्रतिश्रयं न नीयते, मा यावत् प्रतिश्रयं नीयते तावत् प्राणजातीया उष्णे द्रवे वा मरिष्यन्तीति कृत्वा । अथानुष्णमर्देवं च तत उपा20 श्रये गत्वा 'एडयेत्' परिष्ठापयेत् । यत् पुनरुष्णं द्रवं वा तत् तत्रैव शून्यगृहादौ परिष्ठापनीयम् । अथ दूरे वसतिस्ततोऽनुष्णमपि शून्यगृहादिषु परिष्ठापयितव्यम् ।। ५८७८ ॥ सुण्णघरादीण सती, दूरे कोण वतिअंतरीभूतो । उक्कुडु पमञ्ज छाया, वति - कोणादीसु विक्खिरणं ॥ ५८७९ ॥ अथ शून्यगृहादीनि न सन्ति ततो दूरे एकान्तं गत्वा यत्र कोणस्थितो वृत्याऽन्तरिती भूतो 25 वा सागारिको न पश्यति तत्रोत्कुटको भूत्वा प्रमृज्य छायायां वृतेः कोणके प्रक्षिपति, आदिग्रहणेन वृतेर्मध्येsपि "विकिरति, परिष्ठापयतीत्यर्थः । एवमोदनस्य सक्तूनां द्रवस्य वा परिष्ठापनं कर्तव्यम् ॥ ५८७९ ॥ 15 १५५० सनिर्युक्ति-लघुभाग्य-वृत्तिके बृहत्कल्पसूत्रे [ आहार०प्रकृते सूत्रम् ११ विवेचनम् । अथ क्षिप्रं न विविनक्ति ततो यावत् परिष्ठापयति तावद् यत्र यद् विनाशमश्नुते तन्निष्पन्नं प्रायश्चित्तम् ॥ ५८७५ ॥ कः पुनः क्षिप्रकालः ? इत्याह सत्त पदा गम्मते, जावति कालेण तं भवे खिप्पं । कीरंति व तालाओ, अद्दुयमविलंबितं सत्ता ॥ ५८७६ ।। 5 यावता कालेन सप्त पदानि गम्यन्ते तत् क्षिप्रं मन्तव्यम् । यावता वा कालेनाद्रुतमविलम्बितं सप्त तालाः क्रियन्ते तावान् कालविशेषः क्षिप्रम् ॥ ५८७६ ॥ तम्हा विविंचितव्वं, आसने वसहि दूर जयणाए । 30 सागारिय उन्ह ठिए, अपमजंते य मासियं लहुगं । वोच्छेदुड्डाहादी, सागारिय सेसए काया ।। ५८८० ॥ अथ सागारिके उष्णे वा प्रदेशे भूत्वा 'स्थितो वा' ऊर्द्धाभूतोऽप्रमार्ण्य वा परिष्ठापयति १ 'चनीयम् । अथ भा० कां० ॥ २ 'यत्र' भक्ते पानके वा 'यत्' प्राणजातं विना कां० ॥ ३ इमामेव नियुक्तिगाथां व्या" कां० ॥ ४ 'द्रवं प्रतिश्रयश्च प्रत्यासन्नस्तत उपा कां० ॥ ५ विकरणं करोति, परि° कां० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340