Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 286
________________ भाष्यगाथाः ५८६७-७५] पञ्चम उद्देशः । १५४९ पवयणघाति व सिया, तं वियर्ड पिसियमदुजातं वा। आदाण किलेसऽयसे, दिलुतो सेट्टिकबढे ॥ ५८७१ ॥ प्रवचनोपघाति वा स्यात् तद् विकटम् , पिशितं वा तत् ‘स्याद' भवेत् , 'अर्थजातं वा' सुवर्णसङ्कलिका-मुद्रिकादिकं कश्चिदनुकम्पया प्रत्यनीकतया वा दद्यात् , ततः पतितं पिण्डं प्रत्युपेक्षेत। तच्चाप्रत्युपेक्ष्य गृहीतं मन्दधर्मणः कस्याप्युत्प्रव्रजितुकामस्य 'आदानम्' आजीविकाकारणं भवति, 5 तद् आदायोत्प्रव्रजतीत्यर्थः । अर्थजाते च गृहीते साधूनां रक्षणादिको महान् परिक्लेशोऽयशो वा भवेत् । तथा चात्र "सिटिकब्बडे" ति राज्यपदोपविष्टकल्पस्थकोपलक्षितस्य काष्ठश्रेष्ठिनो दृष्टान्तः, स च आवश्यकटीकातो मन्तव्यः (पत्र ) ॥ ५८७१ ॥ तम्हा खलु दट्टयो, सुक्खग्गहणं अगिण्हणे लहुगा। आणादिणो य दोसा, विराहणा जा भणिय पुचि ॥ ५८७२ ॥ 10 ___ यत एते दोषास्तस्मात् 'खलु' नियमात् पात्रकपतितः पिण्डो द्रष्टव्यः । संसक्ते च देशे शुष्कस्य कूरस्य पृथग्मात्रके ग्रहणं कार्यम् । अथ पृथग् न गृह्णाति ततश्चतुर्लघु आज्ञादयश्च दोषाः, विराधना च द्विधा संयमा-ऽऽत्मविषया या 'पूर्वम्' अनन्तरमेव भणिता ॥५८७२॥ इदमेव भावयति संसजिमम्मि देसे, मत्तग सुक्ख पडिलेहणा उवरि । [पि.नि.५९३] 15 एवं ताव अणुण्हे, उण्हे कुसणं च उवरिं तु ॥ ५८७३ ॥ संसजिमे देशे यः शुष्कः पौद्गलिकोऽनुष्णो लभ्यते स मात्रके गृहीत्वा प्रत्युपेक्ष्य यद्यसंसक्तस्तदा प्रतिग्रहोपरि प्रक्षिप्यते । एवं तावदनुष्णे विधिरुक्तः । यः पुनरुष्णः कूरः कुसणं वा तद् नियमादसंसक्तमिति कृत्वा प्रतिग्रहस्यैवोपरि गृह्यते ॥ ५८७३ ॥ गुरुमादीण व जोग्गं, एगम्मितरम्मि पेहिउं उवरि । 20 दोसु वि संसत्तेसुं, दुल्लह पुव्वेतरं पच्छा ॥ ५८७४ ॥ गुरु-ग्लानादीनां वा योग्यमेकस्मिन् मात्रके गृह्यते, 'इतरस्मिन्' द्वितीये मात्रके संसक्तं प्रत्युपेक्ष्य पतिग्रहोपरि प्रक्षिप्यते । एवं तावद् यत्रैकं भक्तं पानकं वा संसक्तं तत्र विधिरुक्तः। यत्र तु द्वे अपि-भक्त-पानके संसक्ते भवतः तंत्र यद् भक्तं पानकं वा दुर्लभं तत् पूर्व गृह्णन्ति 'इतरत्' सुलभं पश्चाद् गृह्णन्ति ॥ ५८७४ ॥ एसा विही तु दिढे, आउट्टियगेण्हणे तु जं जत्थ । अणभोगगह विगिचण, खिप्पमविविंचति य ज जत्थ ॥ ५८७५ ॥ एष विधिः दृष्टे गृह्यमाणे भणितः। अथाकुट्टिकया संसक्तं गृह्णाति ततो यद् यत्र द्वीन्द्रियपरितापनादिकं करोति तत् तत्र प्राप्नोति । अथानाभोगेन संसक्तं गृहीतं ततः क्षिप्रमेव १ °सक्तं सम्भवति तत्र का० ॥ २ तत्र द्वयोरपि संसक्तयोः सम्भवतोर्मध्ये यद् का ० ।। ३ 'दृष्टे' प्रत्युपेक्षिते पिण्डे गृह्य का० ॥ ४ 'याऽप्रत्युपेक्षितं संसक्तमेव भक्त-पानं गृ' कां० ॥ ५ °ति, प्रायश्चित्तमित्यर्थः । अथा कां. ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340