________________
भाष्यगाथाः ५८६७-७५] पञ्चम उद्देशः ।
१५४९ पवयणघाति व सिया, तं वियर्ड पिसियमदुजातं वा।
आदाण किलेसऽयसे, दिलुतो सेट्टिकबढे ॥ ५८७१ ॥ प्रवचनोपघाति वा स्यात् तद् विकटम् , पिशितं वा तत् ‘स्याद' भवेत् , 'अर्थजातं वा' सुवर्णसङ्कलिका-मुद्रिकादिकं कश्चिदनुकम्पया प्रत्यनीकतया वा दद्यात् , ततः पतितं पिण्डं प्रत्युपेक्षेत। तच्चाप्रत्युपेक्ष्य गृहीतं मन्दधर्मणः कस्याप्युत्प्रव्रजितुकामस्य 'आदानम्' आजीविकाकारणं भवति, 5 तद् आदायोत्प्रव्रजतीत्यर्थः । अर्थजाते च गृहीते साधूनां रक्षणादिको महान् परिक्लेशोऽयशो वा भवेत् । तथा चात्र "सिटिकब्बडे" ति राज्यपदोपविष्टकल्पस्थकोपलक्षितस्य काष्ठश्रेष्ठिनो दृष्टान्तः, स च आवश्यकटीकातो मन्तव्यः (पत्र ) ॥ ५८७१ ॥
तम्हा खलु दट्टयो, सुक्खग्गहणं अगिण्हणे लहुगा।
आणादिणो य दोसा, विराहणा जा भणिय पुचि ॥ ५८७२ ॥ 10 ___ यत एते दोषास्तस्मात् 'खलु' नियमात् पात्रकपतितः पिण्डो द्रष्टव्यः । संसक्ते च देशे शुष्कस्य कूरस्य पृथग्मात्रके ग्रहणं कार्यम् । अथ पृथग् न गृह्णाति ततश्चतुर्लघु आज्ञादयश्च दोषाः, विराधना च द्विधा संयमा-ऽऽत्मविषया या 'पूर्वम्' अनन्तरमेव भणिता ॥५८७२॥ इदमेव भावयति
संसजिमम्मि देसे, मत्तग सुक्ख पडिलेहणा उवरि । [पि.नि.५९३] 15
एवं ताव अणुण्हे, उण्हे कुसणं च उवरिं तु ॥ ५८७३ ॥ संसजिमे देशे यः शुष्कः पौद्गलिकोऽनुष्णो लभ्यते स मात्रके गृहीत्वा प्रत्युपेक्ष्य यद्यसंसक्तस्तदा प्रतिग्रहोपरि प्रक्षिप्यते । एवं तावदनुष्णे विधिरुक्तः । यः पुनरुष्णः कूरः कुसणं वा तद् नियमादसंसक्तमिति कृत्वा प्रतिग्रहस्यैवोपरि गृह्यते ॥ ५८७३ ॥ गुरुमादीण व जोग्गं, एगम्मितरम्मि पेहिउं उवरि ।
20 दोसु वि संसत्तेसुं, दुल्लह पुव्वेतरं पच्छा ॥ ५८७४ ॥ गुरु-ग्लानादीनां वा योग्यमेकस्मिन् मात्रके गृह्यते, 'इतरस्मिन्' द्वितीये मात्रके संसक्तं प्रत्युपेक्ष्य पतिग्रहोपरि प्रक्षिप्यते । एवं तावद् यत्रैकं भक्तं पानकं वा संसक्तं तत्र विधिरुक्तः। यत्र तु द्वे अपि-भक्त-पानके संसक्ते भवतः तंत्र यद् भक्तं पानकं वा दुर्लभं तत् पूर्व गृह्णन्ति 'इतरत्' सुलभं पश्चाद् गृह्णन्ति ॥ ५८७४ ॥
एसा विही तु दिढे, आउट्टियगेण्हणे तु जं जत्थ ।
अणभोगगह विगिचण, खिप्पमविविंचति य ज जत्थ ॥ ५८७५ ॥ एष विधिः दृष्टे गृह्यमाणे भणितः। अथाकुट्टिकया संसक्तं गृह्णाति ततो यद् यत्र द्वीन्द्रियपरितापनादिकं करोति तत् तत्र प्राप्नोति । अथानाभोगेन संसक्तं गृहीतं ततः क्षिप्रमेव
१ °सक्तं सम्भवति तत्र का० ॥ २ तत्र द्वयोरपि संसक्तयोः सम्भवतोर्मध्ये यद् का ० ।। ३ 'दृष्टे' प्रत्युपेक्षिते पिण्डे गृह्य का० ॥ ४ 'याऽप्रत्युपेक्षितं संसक्तमेव भक्त-पानं गृ' कां० ॥ ५ °ति, प्रायश्चित्तमित्यर्थः । अथा कां. ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org