________________
सागारिय उन्ह ठिए, पमञ्जणा सत्तुग दवे य ।। ५८७७ ।।
तस्मात् तद् जन्तुसंसक्तमनन्तरोक्त क्षिप्रकालमध्य एव विवेचनीयम् । यदि च वसतिरासन्ना 10 ततस्तत्र गत्वा परित्यक्तव्यम् । अथ दूरे वसतिः ततः शून्यगृहादिषु यतनया परिष्ठापयति । अथ सागारिके पश्यति उष्णे वा भूभागे 'स्थितो वा' ऊर्द्धस्थितः परिष्ठापयति ततो वक्ष्यमाणं प्रायश्चित्तम् । यत्र च परिष्ठाप्यते तत्र प्रमार्जना कर्तव्या । एवमोदनस्य विधिरुक्तः । सक्तूनां द्रवस्य चैवमेवाल्पसागारिके प्रमृज्य छायायां परिष्ठापनं विधेयम् ॥ ५८७७ ॥ इदमेव व्याचष्टे - जावई काले वसहिं, उवेति जति तात्र ते ण विद्दति । तं पि अणुहमदवं तो, गंतूणमुवस्सए एडे ॥ ५८७८ ।।
यावता कालेन वसतिमुपैति तावता कालेन यदि 'ते' प्राणिनः 'न विद्वान्ति' न विनश्यन्ति तदा तद् वसतिं नीयते । तदप्यनुष्णमद्रवं च यदि भवति ततः प्रतिश्रयं नेतव्यम् । किमुक्तं भवति ? - यदि उष्णः कूरो द्रवं वा संसक्तं ततः प्रतिश्रयं न नीयते, मा यावत् प्रतिश्रयं नीयते तावत् प्राणजातीया उष्णे द्रवे वा मरिष्यन्तीति कृत्वा । अथानुष्णमर्देवं च तत उपा20 श्रये गत्वा 'एडयेत्' परिष्ठापयेत् । यत् पुनरुष्णं द्रवं वा तत् तत्रैव शून्यगृहादौ परिष्ठापनीयम् । अथ दूरे वसतिस्ततोऽनुष्णमपि शून्यगृहादिषु परिष्ठापयितव्यम् ।। ५८७८ ॥ सुण्णघरादीण सती, दूरे कोण वतिअंतरीभूतो ।
उक्कुडु पमञ्ज छाया, वति - कोणादीसु विक्खिरणं ॥ ५८७९ ॥
अथ शून्यगृहादीनि न सन्ति ततो दूरे एकान्तं गत्वा यत्र कोणस्थितो वृत्याऽन्तरिती भूतो 25 वा सागारिको न पश्यति तत्रोत्कुटको भूत्वा प्रमृज्य छायायां वृतेः कोणके प्रक्षिपति, आदिग्रहणेन वृतेर्मध्येsपि "विकिरति, परिष्ठापयतीत्यर्थः । एवमोदनस्य सक्तूनां द्रवस्य वा परिष्ठापनं कर्तव्यम् ॥ ५८७९ ॥
15
१५५०
सनिर्युक्ति-लघुभाग्य-वृत्तिके बृहत्कल्पसूत्रे [ आहार०प्रकृते सूत्रम् ११
विवेचनम् । अथ क्षिप्रं न विविनक्ति ततो यावत् परिष्ठापयति तावद् यत्र यद् विनाशमश्नुते तन्निष्पन्नं प्रायश्चित्तम् ॥ ५८७५ ॥ कः पुनः क्षिप्रकालः ? इत्याह
सत्त पदा गम्मते, जावति कालेण तं भवे खिप्पं ।
कीरंति व तालाओ, अद्दुयमविलंबितं सत्ता ॥ ५८७६ ।।
5 यावता कालेन सप्त पदानि गम्यन्ते तत् क्षिप्रं मन्तव्यम् । यावता वा कालेनाद्रुतमविलम्बितं सप्त तालाः क्रियन्ते तावान् कालविशेषः क्षिप्रम् ॥ ५८७६ ॥
तम्हा विविंचितव्वं, आसने वसहि दूर जयणाए ।
30
सागारिय उन्ह ठिए, अपमजंते य मासियं लहुगं ।
वोच्छेदुड्डाहादी, सागारिय सेसए काया ।। ५८८० ॥
अथ सागारिके उष्णे वा प्रदेशे भूत्वा 'स्थितो वा' ऊर्द्धाभूतोऽप्रमार्ण्य वा परिष्ठापयति
१ 'चनीयम् । अथ भा० कां० ॥ २ 'यत्र' भक्ते पानके वा 'यत्' प्राणजातं विना कां० ॥ ३ इमामेव नियुक्तिगाथां व्या" कां० ॥ ४ 'द्रवं प्रतिश्रयश्च प्रत्यासन्नस्तत उपा कां० ॥ ५ विकरणं करोति, परि° कां० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org