________________
पञ्चम उद्देशः ।
१५५१
भाष्यगाथाः ५८७६-८३ ] ततश्चतुर्ष्वपि लघुमासिकम् । सागारिके च पश्यति यदि भक्तं परिष्ठाप्यते तदा स भक्तपानदानव्यवच्छेदमुड्डाहादिकं वा कुर्यात् । 'शेषे तु' उष्णादित्रये परिष्ठापयतः पृथिव्यादिकाया विराध्यन्ते ॥ ५८८० ॥
इइ ओअण सत्तुविही, सत्तू तद्दिणकतादि जा तिष्णि । वीसुं वसुं गहणं, चतुरादिदिणाइ एगत्थ ।। ५८८१ ।।
5
'इति' एवमोदनस्य संसक्तस्य विधिरुक्तः । अथ सक्तूनां संसक्तानां विधिरुच्यते - यत्र सक्तवः संसक्ता लभ्यन्ते तत्र नैव गृह्यन्ते । अथ न संस्तरन्ति ततस्तद्दिवसकृतान् सक्तून् गृहन्ति । आदिशब्दात् तैरप्यसंस्तरन्तो द्वितीय तृतीय दिनकृतानपि सक्तून् गृह्णन्ति, ते पुनः पृथक् पृथग् गृह्यन्ते । चतुर्दिवसकृतादयस्तु सर्वेऽप्येकत्र गृह्यन्ते तेषामयं प्रत्युपेक्षणाविधिः – रजस्त्राणमधः प्रस्तीर्य तस्योपरि पात्र कबन्धं कृत्वा तत्र सक्तवः प्रकीर्यन्ते, तत ऊर्द्धमुखं पात्र कबन्धं कृत्वा 10 एकस्मिन् पार्श्वे नीत्वा यास्तत्र ऊरणिका लग्नास्ता उद्धृत्य कर्परे प्रक्षिप्यन्ते, एवं प्रत्युपेक्ष्य भूयोऽपि तथैव प्रत्युपेक्षन्ते ॥ ५८८१ ॥ ततः —
नव पेहातों अदिट्ठे, दिट्ठे अण्णाओं होंति नव चेव । एवं नवगा तिण्णी, तेण परं संथरे उज्झे ।। ५८८२ ।।
नववाराः प्रत्युपेक्षणां कृत्वा यदि प्राणजातीया न दृष्टास्ततो भोक्तव्यास्ते सक्तवः, अथ 15 दृष्टास्ततो भूयोऽप्यन्या नववारा प्रत्युपेक्षणा भवति, तथापि यदि दृष्टास्ततः पुनरपि नववाराः प्रत्युपेक्षते । ततो यद्येवं त्रिभिर्नवकैः शुद्धास्ततो भुञ्जताम् । अथ न शुद्धास्तदा ततः परं 'उज्झेत्' परिष्ठापयेत् । अथासंस्तरणं ततस्तावत् प्रत्युपेक्षन्ते यावत् शुद्धीभवन्ति ॥ ५८८२ ॥ प्राणजातीयानां च परिष्ठापने विधिरयम् -
आगरमादी असती, कप्परमादीसु सत्तुए उरणी ।
पिंड मलेवाडाण य, कातूण दवं तु तत्थेव ॥ ५८८३ ।।
या ऊरणिकाः प्रत्युपेक्षमाणेन दृष्टास्ता आकरादिषु परिष्ठापनीयाः । इह घरट्टादिसमीपे प्रभूता यत्र तुषा भवन्ति स आकर उच्यते । तस्याभावे कर्परादिषु स्तोकान् सक्तून् प्रक्षिप्य तत्रोरणिकाः स्थापयित्वा बहिरनाबाधे प्रदेशे स्थाप्यन्ते । यदि च द्रवभाजनं नास्ति ततो ये सक्तवः शुद्धा अलेपकृताश्च ते 'पिण्डं कृत्वा ' भाजनस्यैकपार्श्वे चम्पयित्वा तत्रैव च द्रवं 'कृत्वा' 25 गृहीत्वा भुञ्जते ॥ ५८८३ ॥ यत्र च काञ्जिकं संसज्यते तत्रायं विधिः
आयाम संससिणोदगं वा, गिण्हंति वा गित चाउलोदं ।
Jain Education International
--
१ष्ठापयति तदा भा० कां० ॥ २° त् - अहो ! अमी श्रमणका मत्ताः यदेवं दुर्लभमाहारं गृहीत्वा छर्दयन्तीति । 'शेषे तु' कां० ॥ ३ द्वितीय दिवसकृतान् यावत् त्रयो दिवसा येषां सञ्जाताः तृतीयदिवसकृता इत्यर्थः तानपि गृह्णन्ति तेषां पुनः 'विष्वग विष्वग' पृथक् पृथग ग्रहणं कर्त्तव्यम् । चतुर्दिवस कां० ॥ ४°न्ते । एवं त्रीणि नवकानि प्रत्यु - पेक्षणानां भवन्ति । ततो यद्येवं कां० ॥ ५ °ते, आदिशब्दादन्यस्याप्येवंविधस्य परिग्रहः । तस्या' कां• ॥ ६ 'व्वुड चाउलोदगं । गिह' तामा० ॥
For Private & Personal Use Only
20
www.jainelibrary.org