________________
१५४८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रै [आहार०प्रकृते सूत्रम् ११ प्रायश्चित्तम् , तच्चोत्तरत्र वक्ष्यते । तत्र च 'संसजिम' संसक्तियोग्यमोदन-सक्तु-दधि-द्रवादिक द्रव्यं मन्तव्यम् ॥ ५८६६ ॥ अथ संसक्तदेशे सङ्कल्पादिषु प्रायश्चित्तमाह----
संकप्पे पयभिंदण, पंथे पत्ते तहेव आवण्णे ।
चत्तारि छच्च लहु गुरु, सट्ठाणं चेव आवण्णे ॥ ५८६७ ॥ । यस्मिन् विषये भक्तादिकं प्राणिभिः संसज्यते तत्र 'सङ्कल्प' गमनाभिप्रायं करोति चतुर्लघु, पदभेदं करोति चतुर्गुरु, संसक्तविषयस्य पन्थानं गच्छतः षड्लघु, तं देशं प्राप्तस्य षड्गुरु । तथैव द्वीन्द्रियादेः सङ्घटनादिकमापन्नस्य खस्थानप्रायश्चित्तम् । तद्यथा-द्वीन्द्रियं सङ्घट्टयति चतुर्लघु; परितापयति चतुर्गुरु, अपद्रावयति षड्लघु, त्रीन्द्रियाणां सङ्घट्टनादिषु पदेषु चतुर्गुरुकादारब्धं षड्गुरुके तिष्ठति, चतुरिन्द्रियाणां सङ्घट्टनादिषु षड्लघुकादिकं छेदान्तमिति ॥ ५८६७ ॥
असिवादिएहिं तु तहिं पविट्ठा, संसजिमाई परिवजयंति ।।
भूइट्ठसंसज्जिमदव्वलंभे, गेण्हंतुवाएण इमेण जुत्ता ॥ ५८६८ ॥ अथाशिवादिभिः कारणैः 'तत्र' संसक्तदेशे प्रविष्टास्ततः 'संसजिमानि' सक्थु दधिप्रभृतीनि द्रव्याणि परिवर्जयन्ति । अथ 'भूयिष्ठानि' प्रभूततराणि संसजिमद्रव्याणि लभ्यन्ते ततोऽमुनोपायेन 'युक्ताः' प्रयत्नपरा गृह्णन्ति ॥ ५८६८ ॥ 15
गमणाऽऽगमणे गहणे, पत्ते पडिए य होति पडिलेहा ।
अगहिय दिट्ट विवजण, अह गिण्हइ जं तमावजे ॥ ५८६९ ॥ भिक्षार्थ दायको मध्ये गमनं कुर्वन् कीटिका-मण्डूकीप्रभृतिजन्तुसंसक्तायां भूमौ मा विराधनां कुर्यादिति सम्यग निरीक्षणीयः । एवमागमने भिक्षाया हस्तेन ग्रहणे च विलोकनीयः । प्राप्ते
च दायके तदीयहस्तगतः पिण्डः प्रत्युपेक्षणीयः । पात्रे च पतितः प्रत्युपेक्षितव्यः । ततो यद्य20 गृहीते त्रसादिकं प्राणजातं पश्यति ततस्तस्मिन् दृष्टे विवर्जयति, न गृह्णातीत्यर्थः । अथ
गृह्णाति ततो येन द्वीन्द्रियादिना संसक्तं गृह्णाति तन्निप्पन्नं प्रायश्चित्तमापद्यते ॥ ५८६९ ।। __ अथ पुनरेवं न प्रत्युपेक्षते तत इमे दोपाः
पाणाइ संजमम्मि, आता मयमच्छि कंटग विसं वा।
मृइंग-मच्छि-विच्छुग-गोवालियमाइया उभए ॥ ५८७० ॥ 25 संयमे त्रसप्राण-पनकादयो विराध्यन्ते । आत्मविराधनायां मृतमक्षिकासम्मिश्रे भुक्ते वल्गुलीव्याधिः, ततश्च क्रमेण मरणं भवेत् , कण्टको वा विषं वा समागच्छेत् । उभयविराधनायां 'मुइङ्गाः' पिपीलिका मक्षिका वृश्चिक-गोपालिकादयो वा भवन्ति । गोपालिका-अहिलोडिकाख्यो जीवविशेषः। एते हि जीवा भक्तेन सह भुक्ताः संयमोपघातमात्मनश्च मेधाधुपघातं कुर्वन्ति ॥५८७०॥
१ अथात्रैव द्वितीयपदमाह इत्यवतरणं कां० ॥ २ 'संसजिमानि' संसक्तियोग्यानि सक्थु' का० ॥ ३ °न्ते नेतराणि ततो का ० ॥ ४ कथम् ? इति अत आह इत्यवतरणं कां ॥ ५ भक्तार्थ डे० ॥ ६ 'म् 'आगमने' आगमनं कुर्वन् 'ग्रहगे च' भिक्षा हस्ते गृलानो दायको विलो' को० ॥ ७°तितस्य पिण्डस्य प्रत्युपेक्षणा कर्तव्या भवति । ततो य° को० ॥ ८ 'संयमे संयमविराधनायां चिन्त्यमानायामप्रत्युपेक्षिते भक्त पाने गृहीते 'प्राणाः' अस कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org