________________
भाष्यगाथाः ५८६१-६६] पञ्चम उद्देशः ।
१५४७ इह प्राणग्रहणेन साः गृहीताः । वीजग्रहणेन तु सर्वोऽपि वनस्पतिकायः सूचितः । रजोग्रहणेन च 'मही' पृथिवीकायो गृहीतः, तेजःकायो वा, परं स चिरस्थायी न भवतीति कृत्वा विवेचनादिकं तत्र न घटते ॥ ५८६२ ॥
ते पुण आणिजंते, पडेज पुचि व संसिया दुव्वे।
आगंतु तुब्भवा वा, आगंतूहिं तिमं सुत्तं ॥ ५८६३ ॥ 'ते पुनः' त्रसादय आनीयमाने वा भक्ते पतेयुः, पूर्व वा तत्र 'द्रव्ये' भक्त-पाने 'संश्रिताः' स्थिताः । ते च द्विविधाः---आगन्तुकास्तदुद्भवा वा । तत्रागन्तुकत्रसादिविषयम् इदं प्रस्तुतसूत्रं मन्तव्यम् ॥ ५८६३ ॥ अथ के तदुद्भवाः ? के वा आगन्तुका भवेयुः ? इत्याह
रसता पणतो व सिया, होज अणागंतुगा ण पुण सेसा ।
एमेव य आगंतू , पणगविवजा भवे दुविहा ॥ ५८६४ ॥ ये 'रसजाः' तक्र-दधि-तीमनादिरसोत्पन्नाः कृम्यादयस्त्रसा यश्च पनकः स्याद् एते 'अनागन्तुकाः' तदुद्भवा भवन्ति, न पुनः 'शेषाः' पृथिवीकायादयः । एवमेव च ये पनकविवर्जाः 'द्विविधाः' त्रसाः स्थावराश्च जीवाः ते सर्वेऽप्यागन्तुकाः सम्भवन्ति ।। ५८६४ ॥
सुत्तम्मि कड्डियम्मि, जयणा गहणं तु पडितों दडव्यो। 15
लहुओ अपेक्खणम्मि, आणादि विराहणा दुविहा ॥ ५८६५ ॥ ___एवं सूत्रमुच्चार्य पदच्छेदं कृत्वा य एष सूत्रार्थों भणितः एतत् सूत्रमाकर्षितमिति भण्यते । एवं सूत्रे आकर्षिते सति नियुक्तिविस्तर उच्यते-तेन साधुना यतनया भक्त-पानस्य ग्रहणं कर्तव्यम् । का पुनर्यतना ? इत्याह-पूर्वमेव गृहस्थहस्तगतः पिण्डो निरीक्षणीयः, यदि शुद्धस्ततो गृह्यते । एवं यतनया गृहीतोऽपि प्रतिग्रहे पतितो द्रष्टव्यः । यदि न प्रेक्षते ततो लघुको 20 मासः, आज्ञादयश्च दोषाः । विराधना च द्विविधा-तत्र संयमे त्रसादय उष्णे वा द्रवे वा पतिता विराध्यन्ते, आत्मविराधना तु मक्षिकादिसम्मिश्रे भुक्ते वल्गुलीव्याधिर्मरणं वा भवेत् । तस्मात् प्रथममेव प्रतिग्रहपतितः पिण्डो द्रष्टव्यः ॥ ५८६५ ॥
अहिगारों असंसत्ते, संकप्पादी तु देस संसत्ते ।
संसजिमं तु तहियं, ओदण-सत्तू-दधि-दवाई ॥ ५८६६ ॥ अत एव यस्मिन् देशे त्रसप्राणादिभिः संसक्तं भक्त-पानं न भवति तत्रासंसक्तेऽधिकारः, तस्मिन्नेव देशे विहरणीयमिति भावः । यस्तु संसक्ते देशे सङ्कल्पादीनि पदानि करोति तस्य
१ 'त्रसाः' द्वीन्द्रियादयो गृही कां० ॥ २ °म् , तेषामेव प्रकृतसूत्रोक्तस्य विवेचनादेर्घटमानकत्वात् ॥ ५८६३ ॥ कां०॥ ३ वन्ति, न पुनः पनकः, तस्य तदुद्भवस्यैव सम्भवात् ॥ ५८६४ ॥ तदेवं कृता विषमपदव्याख्या भाष्यकृता, सम्प्रति नियुक्तिविस्तरस्यावसरः, तथा चाह-सुत्तम्मि कां० ॥ ४ प विषमपदव्याख्यारूपः सूत्रा कां ॥ ५ 'द्रष्टव्यः' परीक्षणीयः, किमयं त्रसादिसंसक्तः ? उत न? इति । यद्येवं परीक्षणम्अवलोकनं न करोति ततो लघुको कां० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org