SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १५४६ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ आहार०प्रकृते सूत्रम् ११ आ हा र विधि प्र कृ तम् सूत्रम् निग्गंथस्स य गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स अंतोपडिग्गहंसि पाणाणि वा बीयाणि वा रए वा परियावज्जेज्जा, तं च संचाएइ विगिंचित्तए वा विसोहित्तए वा तं पुवामेव लाइया विसोहिया विसोहिया ततो संजतामेव भुंजेज वा पिबेज्ज वा । तं च नो संचाएइ विगिचित्तए वा विसोहित्तए वा तं नो अप्पणा भुंजेजा नो अन्नेसिं दावए, एगते बहुफासुए पएसे पडिलेहित्ता पमजित्ता परि. ट्ठवियव्वे सिया ११ ॥ अस्य सम्बन्धमाह वंतादियणं रत्ति, णिवारितं दिवसतो वि अत्थेणं । वंतमणेसियगहणं, सिया उ पडिवक्खओ सुत्तं ॥ ५८६१ ॥ 15 रात्रौ वान्तापानं पूर्वसूत्रे निवारितम् , दिवसतोऽपि अर्थेन निवारितम् । अनेषणीयग्रहणमपि साधुभिर्वान्तमेव, अतस्तदिह प्रतिषिध्यते । "सिया उ पडिवक्खओ सुत्तं' ति 'स्याद्' भजनया प्रतिपक्षतो वा एतत् सूत्रं भवति अप्रतिपक्षतो वा । तत्र प्रतिपक्षतो यथा-पूर्वसूत्रे रात्री वान्तापानं निवारितम् , इदं तु दिवाऽनेषणीयं वान्तं निवार्यते । अप्रतिपक्षतो यथा--पूर्वसूत्रे वान्तं न वर्तते प्रत्यापातुमित्युक्तम् , इहाप्यनेषणीयं वान्तं न वर्तते ग्रहीतुमित्युच्यते ॥५८६१॥ 20 अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थस्य गृहपतिकुलं पिण्डपातप्रतिज्ञया अनुप्र. विष्टस्यान्तःप्रतिग्रहे प्राणा वा बीजानि वा रजो वा परि-समन्तादापतेयुः । 'तच्च' प्राणादिकं यदि शक्नोति विवेक्तुं वा विशोधयितुं वा ततः 'तत्' प्राणादिजातादिकं 'लात्वा' हस्तेन गृहीत्वा 'विशोध्य विशोध्य' सर्वथैवापनीय ततः 'संयत एव' प्रयत्नपर एव भुञ्जीत वा पिबेद्वा । तच न शक्नोति विवेक्तुं वा विशोधयितुं वा तद् नात्मना भुञ्जीत न वाऽन्येषां दद्यात् , किन्तु 25 एकान्ते बहुप्राशुके प्रदेशे प्रत्युपेक्ष्य प्रमृज्य परिष्ठापयितव्यं स्यादिति सूत्रार्थः ॥ अथ भाष्यकृद् विषमपदानि विवृणोति पाणग्गहणेण तसा, गहिया बीएहि सब वणकाओ । रतगहणा होति मही, तेऊ व ण सो चिरहाई ॥ ५८६२ ॥ १ अर्थेन' नियुक्तिविस्तरादिना तदेव निवा कां० ॥ २ °धुभिः प्रवज्यामाददानैर्वान्त' को० ॥ ३ 'प्रत्युपेक्ष्य' चक्षुषा निरीक्ष्य 'प्रमृज्य' रजोहरणादिना प्रतिलेख्य परि° कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy