Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 285
________________ १५४८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रै [आहार०प्रकृते सूत्रम् ११ प्रायश्चित्तम् , तच्चोत्तरत्र वक्ष्यते । तत्र च 'संसजिम' संसक्तियोग्यमोदन-सक्तु-दधि-द्रवादिक द्रव्यं मन्तव्यम् ॥ ५८६६ ॥ अथ संसक्तदेशे सङ्कल्पादिषु प्रायश्चित्तमाह---- संकप्पे पयभिंदण, पंथे पत्ते तहेव आवण्णे । चत्तारि छच्च लहु गुरु, सट्ठाणं चेव आवण्णे ॥ ५८६७ ॥ । यस्मिन् विषये भक्तादिकं प्राणिभिः संसज्यते तत्र 'सङ्कल्प' गमनाभिप्रायं करोति चतुर्लघु, पदभेदं करोति चतुर्गुरु, संसक्तविषयस्य पन्थानं गच्छतः षड्लघु, तं देशं प्राप्तस्य षड्गुरु । तथैव द्वीन्द्रियादेः सङ्घटनादिकमापन्नस्य खस्थानप्रायश्चित्तम् । तद्यथा-द्वीन्द्रियं सङ्घट्टयति चतुर्लघु; परितापयति चतुर्गुरु, अपद्रावयति षड्लघु, त्रीन्द्रियाणां सङ्घट्टनादिषु पदेषु चतुर्गुरुकादारब्धं षड्गुरुके तिष्ठति, चतुरिन्द्रियाणां सङ्घट्टनादिषु षड्लघुकादिकं छेदान्तमिति ॥ ५८६७ ॥ असिवादिएहिं तु तहिं पविट्ठा, संसजिमाई परिवजयंति ।। भूइट्ठसंसज्जिमदव्वलंभे, गेण्हंतुवाएण इमेण जुत्ता ॥ ५८६८ ॥ अथाशिवादिभिः कारणैः 'तत्र' संसक्तदेशे प्रविष्टास्ततः 'संसजिमानि' सक्थु दधिप्रभृतीनि द्रव्याणि परिवर्जयन्ति । अथ 'भूयिष्ठानि' प्रभूततराणि संसजिमद्रव्याणि लभ्यन्ते ततोऽमुनोपायेन 'युक्ताः' प्रयत्नपरा गृह्णन्ति ॥ ५८६८ ॥ 15 गमणाऽऽगमणे गहणे, पत्ते पडिए य होति पडिलेहा । अगहिय दिट्ट विवजण, अह गिण्हइ जं तमावजे ॥ ५८६९ ॥ भिक्षार्थ दायको मध्ये गमनं कुर्वन् कीटिका-मण्डूकीप्रभृतिजन्तुसंसक्तायां भूमौ मा विराधनां कुर्यादिति सम्यग निरीक्षणीयः । एवमागमने भिक्षाया हस्तेन ग्रहणे च विलोकनीयः । प्राप्ते च दायके तदीयहस्तगतः पिण्डः प्रत्युपेक्षणीयः । पात्रे च पतितः प्रत्युपेक्षितव्यः । ततो यद्य20 गृहीते त्रसादिकं प्राणजातं पश्यति ततस्तस्मिन् दृष्टे विवर्जयति, न गृह्णातीत्यर्थः । अथ गृह्णाति ततो येन द्वीन्द्रियादिना संसक्तं गृह्णाति तन्निप्पन्नं प्रायश्चित्तमापद्यते ॥ ५८६९ ।। __ अथ पुनरेवं न प्रत्युपेक्षते तत इमे दोपाः पाणाइ संजमम्मि, आता मयमच्छि कंटग विसं वा। मृइंग-मच्छि-विच्छुग-गोवालियमाइया उभए ॥ ५८७० ॥ 25 संयमे त्रसप्राण-पनकादयो विराध्यन्ते । आत्मविराधनायां मृतमक्षिकासम्मिश्रे भुक्ते वल्गुलीव्याधिः, ततश्च क्रमेण मरणं भवेत् , कण्टको वा विषं वा समागच्छेत् । उभयविराधनायां 'मुइङ्गाः' पिपीलिका मक्षिका वृश्चिक-गोपालिकादयो वा भवन्ति । गोपालिका-अहिलोडिकाख्यो जीवविशेषः। एते हि जीवा भक्तेन सह भुक्ताः संयमोपघातमात्मनश्च मेधाधुपघातं कुर्वन्ति ॥५८७०॥ १ अथात्रैव द्वितीयपदमाह इत्यवतरणं कां० ॥ २ 'संसजिमानि' संसक्तियोग्यानि सक्थु' का० ॥ ३ °न्ते नेतराणि ततो का ० ॥ ४ कथम् ? इति अत आह इत्यवतरणं कां ॥ ५ भक्तार्थ डे० ॥ ६ 'म् 'आगमने' आगमनं कुर्वन् 'ग्रहगे च' भिक्षा हस्ते गृलानो दायको विलो' को० ॥ ७°तितस्य पिण्डस्य प्रत्युपेक्षणा कर्तव्या भवति । ततो य° को० ॥ ८ 'संयमे संयमविराधनायां चिन्त्यमानायामप्रत्युपेक्षिते भक्त पाने गृहीते 'प्राणाः' अस कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340