Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 284
________________ भाष्यगाथाः ५८६१-६६] पञ्चम उद्देशः । १५४७ इह प्राणग्रहणेन साः गृहीताः । वीजग्रहणेन तु सर्वोऽपि वनस्पतिकायः सूचितः । रजोग्रहणेन च 'मही' पृथिवीकायो गृहीतः, तेजःकायो वा, परं स चिरस्थायी न भवतीति कृत्वा विवेचनादिकं तत्र न घटते ॥ ५८६२ ॥ ते पुण आणिजंते, पडेज पुचि व संसिया दुव्वे। आगंतु तुब्भवा वा, आगंतूहिं तिमं सुत्तं ॥ ५८६३ ॥ 'ते पुनः' त्रसादय आनीयमाने वा भक्ते पतेयुः, पूर्व वा तत्र 'द्रव्ये' भक्त-पाने 'संश्रिताः' स्थिताः । ते च द्विविधाः---आगन्तुकास्तदुद्भवा वा । तत्रागन्तुकत्रसादिविषयम् इदं प्रस्तुतसूत्रं मन्तव्यम् ॥ ५८६३ ॥ अथ के तदुद्भवाः ? के वा आगन्तुका भवेयुः ? इत्याह रसता पणतो व सिया, होज अणागंतुगा ण पुण सेसा । एमेव य आगंतू , पणगविवजा भवे दुविहा ॥ ५८६४ ॥ ये 'रसजाः' तक्र-दधि-तीमनादिरसोत्पन्नाः कृम्यादयस्त्रसा यश्च पनकः स्याद् एते 'अनागन्तुकाः' तदुद्भवा भवन्ति, न पुनः 'शेषाः' पृथिवीकायादयः । एवमेव च ये पनकविवर्जाः 'द्विविधाः' त्रसाः स्थावराश्च जीवाः ते सर्वेऽप्यागन्तुकाः सम्भवन्ति ।। ५८६४ ॥ सुत्तम्मि कड्डियम्मि, जयणा गहणं तु पडितों दडव्यो। 15 लहुओ अपेक्खणम्मि, आणादि विराहणा दुविहा ॥ ५८६५ ॥ ___एवं सूत्रमुच्चार्य पदच्छेदं कृत्वा य एष सूत्रार्थों भणितः एतत् सूत्रमाकर्षितमिति भण्यते । एवं सूत्रे आकर्षिते सति नियुक्तिविस्तर उच्यते-तेन साधुना यतनया भक्त-पानस्य ग्रहणं कर्तव्यम् । का पुनर्यतना ? इत्याह-पूर्वमेव गृहस्थहस्तगतः पिण्डो निरीक्षणीयः, यदि शुद्धस्ततो गृह्यते । एवं यतनया गृहीतोऽपि प्रतिग्रहे पतितो द्रष्टव्यः । यदि न प्रेक्षते ततो लघुको 20 मासः, आज्ञादयश्च दोषाः । विराधना च द्विविधा-तत्र संयमे त्रसादय उष्णे वा द्रवे वा पतिता विराध्यन्ते, आत्मविराधना तु मक्षिकादिसम्मिश्रे भुक्ते वल्गुलीव्याधिर्मरणं वा भवेत् । तस्मात् प्रथममेव प्रतिग्रहपतितः पिण्डो द्रष्टव्यः ॥ ५८६५ ॥ अहिगारों असंसत्ते, संकप्पादी तु देस संसत्ते । संसजिमं तु तहियं, ओदण-सत्तू-दधि-दवाई ॥ ५८६६ ॥ अत एव यस्मिन् देशे त्रसप्राणादिभिः संसक्तं भक्त-पानं न भवति तत्रासंसक्तेऽधिकारः, तस्मिन्नेव देशे विहरणीयमिति भावः । यस्तु संसक्ते देशे सङ्कल्पादीनि पदानि करोति तस्य १ 'त्रसाः' द्वीन्द्रियादयो गृही कां० ॥ २ °म् , तेषामेव प्रकृतसूत्रोक्तस्य विवेचनादेर्घटमानकत्वात् ॥ ५८६३ ॥ कां०॥ ३ वन्ति, न पुनः पनकः, तस्य तदुद्भवस्यैव सम्भवात् ॥ ५८६४ ॥ तदेवं कृता विषमपदव्याख्या भाष्यकृता, सम्प्रति नियुक्तिविस्तरस्यावसरः, तथा चाह-सुत्तम्मि कां० ॥ ४ प विषमपदव्याख्यारूपः सूत्रा कां ॥ ५ 'द्रष्टव्यः' परीक्षणीयः, किमयं त्रसादिसंसक्तः ? उत न? इति । यद्येवं परीक्षणम्अवलोकनं न करोति ततो लघुको कां० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340