Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
१५४६ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ आहार०प्रकृते सूत्रम् ११
आ हा र विधि प्र कृ तम् सूत्रम्
निग्गंथस्स य गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स अंतोपडिग्गहंसि पाणाणि वा बीयाणि वा रए वा परियावज्जेज्जा, तं च संचाएइ विगिंचित्तए वा विसोहित्तए वा तं पुवामेव लाइया विसोहिया विसोहिया ततो संजतामेव भुंजेज वा पिबेज्ज वा । तं च नो संचाएइ विगिचित्तए वा विसोहित्तए वा तं नो अप्पणा भुंजेजा नो अन्नेसिं दावए, एगते बहुफासुए पएसे पडिलेहित्ता पमजित्ता परि.
ट्ठवियव्वे सिया ११ ॥ अस्य सम्बन्धमाह
वंतादियणं रत्ति, णिवारितं दिवसतो वि अत्थेणं ।
वंतमणेसियगहणं, सिया उ पडिवक्खओ सुत्तं ॥ ५८६१ ॥ 15 रात्रौ वान्तापानं पूर्वसूत्रे निवारितम् , दिवसतोऽपि अर्थेन निवारितम् । अनेषणीयग्रहणमपि साधुभिर्वान्तमेव, अतस्तदिह प्रतिषिध्यते । "सिया उ पडिवक्खओ सुत्तं' ति 'स्याद्' भजनया प्रतिपक्षतो वा एतत् सूत्रं भवति अप्रतिपक्षतो वा । तत्र प्रतिपक्षतो यथा-पूर्वसूत्रे रात्री वान्तापानं निवारितम् , इदं तु दिवाऽनेषणीयं वान्तं निवार्यते । अप्रतिपक्षतो यथा--पूर्वसूत्रे वान्तं न वर्तते प्रत्यापातुमित्युक्तम् , इहाप्यनेषणीयं वान्तं न वर्तते ग्रहीतुमित्युच्यते ॥५८६१॥ 20 अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थस्य गृहपतिकुलं पिण्डपातप्रतिज्ञया अनुप्र. विष्टस्यान्तःप्रतिग्रहे प्राणा वा बीजानि वा रजो वा परि-समन्तादापतेयुः । 'तच्च' प्राणादिकं यदि शक्नोति विवेक्तुं वा विशोधयितुं वा ततः 'तत्' प्राणादिजातादिकं 'लात्वा' हस्तेन गृहीत्वा 'विशोध्य विशोध्य' सर्वथैवापनीय ततः 'संयत एव' प्रयत्नपर एव भुञ्जीत वा पिबेद्वा । तच न शक्नोति विवेक्तुं वा विशोधयितुं वा तद् नात्मना भुञ्जीत न वाऽन्येषां दद्यात् , किन्तु 25 एकान्ते बहुप्राशुके प्रदेशे प्रत्युपेक्ष्य प्रमृज्य परिष्ठापयितव्यं स्यादिति सूत्रार्थः ॥ अथ भाष्यकृद् विषमपदानि विवृणोति
पाणग्गहणेण तसा, गहिया बीएहि सब वणकाओ ।
रतगहणा होति मही, तेऊ व ण सो चिरहाई ॥ ५८६२ ॥ १ अर्थेन' नियुक्तिविस्तरादिना तदेव निवा कां० ॥ २ °धुभिः प्रवज्यामाददानैर्वान्त' को० ॥ ३ 'प्रत्युपेक्ष्य' चक्षुषा निरीक्ष्य 'प्रमृज्य' रजोहरणादिना प्रतिलेख्य परि° कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340