Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 281
________________ 15 १५४४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ उदारप्रकृते सूत्रम् १० पडुपनऽणागते वा, संजमजोगाण जेण परिहागी। ण वि जायति तं जाणसु, साहुस्स पमाणमाहारे ॥ ५८५२ ॥ 'प्रत्युत्पन्ने' वर्तमानेऽनागते वा काले 'येन' यावता मुक्तेन 'संयमयोगानां' प्रत्युपेक्षणादीनां परिहाणिर्न जायते तदाहारस्य प्रमाणं साधोर्जानीहि ॥ ५८५२ ॥ एवं पमाणजुत्तं, अतिरेगं वा वि भुंजमाणस्स । वायादीखोभेण व, एजाहि कहंचि उग्गालो ॥ ५८५३ ॥ एवंविधं प्रमाणयुक्तं कारणे वाऽतिरिक्तमपि आहारं भुनानस्य वातादिक्षोभेण वा कथञ्चिदुद्गार आगच्छेत् ॥ ५८५३ ॥ ततः किम् ? इत्यत आह जो पुर्ण सभोयणं तं, दवं व पाऊण णिग्गतं गिलति । तहियं सुत्तनिवाओ, तत्थाऽऽएसा इमे होति ॥ ५८५४ ॥ पुनःशब्दो विशेषणे, स चैतद् विशिनष्टि-यः 'तम्' उद्गारमागतं परित्यजति तस्य न प्रायश्चित्तम् । यस्तु 'तम्' उद्गारं सभोजनमच्छं वा द्रवमागतं ज्ञात्वा मुखाद् निर्गतं गिलति तत्र 'सूत्रनिपातः' प्रस्तुतसूत्रस्यावतारः । तत्र चेमे आदेशाः भवन्ति ॥ ५८५४ ॥ अच्छे ससित्थ चधिय, मुहणिग्गतकवल भरियहत्थे य । अंजलि पडिते दिडे, मासादारोवणा चरिमं ।। ५८५५ ॥ ___अच्छं द्रवमागतं यदि परेणादृष्टमापिबति ततो मासलघु, अथ दृष्टं ततो मासगुरु । ससिक्थमागतं परेणादृष्टमाददानस्य मासगुरु, दृष्टे चतुर्लधु । अथ तं ससिक्थमदृष्टं चर्वयति ततश्चतुर्लघु, दृष्टे चतुर्गुरु । मुखाद् निर्गतं कवलमेकहस्तेन प्रतीष्यादृष्टमापिबति चतुर्गुरु, दृष्टे षड्लघु । अथैकं हस्तपुटं भरितमदृष्टमापिवति ततः षड् लघु, दृष्टे पङ्गुरु । अथाञ्जलिं भरि20 तमदृष्टमापिबति षड्गुरु, दृष्टे च्छेदः । अञ्जलिं भृत्वा यद् अन्यद् भूमौ पतितं तदपि अदृष्ट__ मापिबति च्छेदः, दृष्टे मूलम् । एवं भिक्षोरुक्तम् । उपाध्यायस्य मासगुरुकादारव्धमनवस्थाप्ये तिष्ठति । आचार्यस्य चतुर्लघुकादारब्धं चरमे तिष्ठति । एवं मासादिका चरमं यावदारोपणा मन्तव्या ॥ ५८५५ ॥ प्रकारान्तरेण प्रायश्चित्तमाह दिय रातो लहु-गुरुगा, वितियं रयणसहितेण दिलुतो । अद्धाणसीसए वा, सत्थो व पहावितो तुरियं ।। ५८५६ ॥ अथवा ससिक्थमसिक्थं वा दृष्टमदृष्टं वा दिवा प्रत्यवगिलतश्चतुर्लघु, रात्रौ चतुर्युरु । द्वितीयपदमत्र भवति-कारणे वान्तमप्यापिवेद् न च प्रायश्चित्तमामुयात् । तत्र च रत्नसहितवणिजा दृष्टान्तः कर्तव्यः । कथं पुनरिदं सम्भवति ? इत्याह-अध्वशीर्ष के मनोज्ञं भक्तं भुक्तं तच्च वान्तम् अन्यच्च न लभ्यते, सार्थो वा त्वरितं प्रधावितः, ततस्तदेव सुगन्धि. 30द्रव्येण वासयित्वा भुते ॥ ५८५६ ॥ अथ रत्नसहितवणिग्दृष्टान्तमाह जल-थलपहेसु रयणाणुवजणं तेण अडविपचंते । १ इत्याह भा०॥ २ °ण तं अच्छं बा, दवं ताभा० ॥ ३ 'आदेशाः' प्रायश्चित्तप्रकाराः भवन्ति ॥ ५८५४ ॥ के पुनस्ते ? इत्याह-अच्छे का ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340