________________
15
१५४४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ उदारप्रकृते सूत्रम् १० पडुपनऽणागते वा, संजमजोगाण जेण परिहागी।
ण वि जायति तं जाणसु, साहुस्स पमाणमाहारे ॥ ५८५२ ॥ 'प्रत्युत्पन्ने' वर्तमानेऽनागते वा काले 'येन' यावता मुक्तेन 'संयमयोगानां' प्रत्युपेक्षणादीनां परिहाणिर्न जायते तदाहारस्य प्रमाणं साधोर्जानीहि ॥ ५८५२ ॥
एवं पमाणजुत्तं, अतिरेगं वा वि भुंजमाणस्स ।
वायादीखोभेण व, एजाहि कहंचि उग्गालो ॥ ५८५३ ॥ एवंविधं प्रमाणयुक्तं कारणे वाऽतिरिक्तमपि आहारं भुनानस्य वातादिक्षोभेण वा कथञ्चिदुद्गार आगच्छेत् ॥ ५८५३ ॥ ततः किम् ? इत्यत आह
जो पुर्ण सभोयणं तं, दवं व पाऊण णिग्गतं गिलति ।
तहियं सुत्तनिवाओ, तत्थाऽऽएसा इमे होति ॥ ५८५४ ॥ पुनःशब्दो विशेषणे, स चैतद् विशिनष्टि-यः 'तम्' उद्गारमागतं परित्यजति तस्य न प्रायश्चित्तम् । यस्तु 'तम्' उद्गारं सभोजनमच्छं वा द्रवमागतं ज्ञात्वा मुखाद् निर्गतं गिलति तत्र 'सूत्रनिपातः' प्रस्तुतसूत्रस्यावतारः । तत्र चेमे आदेशाः भवन्ति ॥ ५८५४ ॥
अच्छे ससित्थ चधिय, मुहणिग्गतकवल भरियहत्थे य ।
अंजलि पडिते दिडे, मासादारोवणा चरिमं ।। ५८५५ ॥ ___अच्छं द्रवमागतं यदि परेणादृष्टमापिबति ततो मासलघु, अथ दृष्टं ततो मासगुरु । ससिक्थमागतं परेणादृष्टमाददानस्य मासगुरु, दृष्टे चतुर्लधु । अथ तं ससिक्थमदृष्टं चर्वयति ततश्चतुर्लघु, दृष्टे चतुर्गुरु । मुखाद् निर्गतं कवलमेकहस्तेन प्रतीष्यादृष्टमापिबति चतुर्गुरु, दृष्टे
षड्लघु । अथैकं हस्तपुटं भरितमदृष्टमापिवति ततः षड् लघु, दृष्टे पङ्गुरु । अथाञ्जलिं भरि20 तमदृष्टमापिबति षड्गुरु, दृष्टे च्छेदः । अञ्जलिं भृत्वा यद् अन्यद् भूमौ पतितं तदपि अदृष्ट__ मापिबति च्छेदः, दृष्टे मूलम् । एवं भिक्षोरुक्तम् । उपाध्यायस्य मासगुरुकादारव्धमनवस्थाप्ये तिष्ठति । आचार्यस्य चतुर्लघुकादारब्धं चरमे तिष्ठति । एवं मासादिका चरमं यावदारोपणा मन्तव्या ॥ ५८५५ ॥ प्रकारान्तरेण प्रायश्चित्तमाह
दिय रातो लहु-गुरुगा, वितियं रयणसहितेण दिलुतो ।
अद्धाणसीसए वा, सत्थो व पहावितो तुरियं ।। ५८५६ ॥ अथवा ससिक्थमसिक्थं वा दृष्टमदृष्टं वा दिवा प्रत्यवगिलतश्चतुर्लघु, रात्रौ चतुर्युरु । द्वितीयपदमत्र भवति-कारणे वान्तमप्यापिवेद् न च प्रायश्चित्तमामुयात् । तत्र च रत्नसहितवणिजा दृष्टान्तः कर्तव्यः । कथं पुनरिदं सम्भवति ? इत्याह-अध्वशीर्ष के मनोज्ञं
भक्तं भुक्तं तच्च वान्तम् अन्यच्च न लभ्यते, सार्थो वा त्वरितं प्रधावितः, ततस्तदेव सुगन्धि. 30द्रव्येण वासयित्वा भुते ॥ ५८५६ ॥ अथ रत्नसहितवणिग्दृष्टान्तमाह
जल-थलपहेसु रयणाणुवजणं तेण अडविपचंते । १ इत्याह भा०॥ २ °ण तं अच्छं बा, दवं ताभा० ॥ ३ 'आदेशाः' प्रायश्चित्तप्रकाराः भवन्ति ॥ ५८५४ ॥ के पुनस्ते ? इत्याह-अच्छे का ० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org