Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
१५५६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ पानक०प्रकृते सूत्रम् १२ गृहीते च पानके 'प्रलोकना' प्रत्युपेक्षणा पिण्डस्येव मन्तव्या । तच्च उदकं त्रिभिः कारणैर्दद्यात् । तद्यथा-"अणभोगा" इत्यादि । अनाभोगेन काचिदगारी एकत्रैव काञ्जिकं पानीयं चास्तीति कृत्वा 'काञ्जिकं दास्यामि' इति बुद्ध्या विस्मृतिवशाजलं दद्यात् । अनुकम्पया वा ग्रीष्मसमये तृषाकान्तं साधुं दृष्ट्वा 'शीतलं जलं पिबेद्' इति बुद्ध्या काचिदुदकं दद्यात् । 5 प्रान्ततया प्रत्यनीकतया वा काचिद् भिक्षुकाधुपासिका 'एतेषामुदकं न कल्पते अतो व्रतभङ्गं करोमि' इति बुद्ध्या साधूनामुदकं दद्यात् ॥ ५८९९ ॥ अथात्रैव विधिमाह
सुद्धम्मि य गहियम्मी, पच्छा णाते विगिंचए विहिणा।
मीसे परूविते उण्ह-सीतसंजोग चउभंगो ॥ ५९००॥ यदि तदुदकं 'शुद्धे' रिक्ते प्रतिग्रहे गृहीतं 'पश्चाच्च' ग्रहणानन्तरं ज्ञातम् यथा-उदक10मिदम् । ततः 'विधिना' वक्ष्यमाणेन 'विविञ्च्यात्' परिष्ठापयेत् । “मीसे" ति मिश्रं नाम-यत्र प्रतिग्रहे पूर्वमन्यद् द्रवं गृहीतं पश्चाच्च पानीयं पतितम् एतद् मिश्रमुच्यते, तत्र 'मिश्रे' उष्णशीतसंयोगे चतुर्भङ्गयाः प्ररूपणा कर्तव्या ॥ ५९०० ॥ .. तत्र रिक्ते प्रतिग्रहे यद् गृहीतं तस्यायं परिष्ठापनाविधिः
तत्थेव भायणम्मी, अलब्भमाणे व आगरसमीवे । 15
सपडिग्गहं विगिचइ, अपरिस्सव उल्लभाणे वा ॥ ५९०१ ॥ यतो भाजनादविरतिकया दत्तं तत्रैव तदुदकं प्रक्षिपति । अथ सा तत्र प्रक्षेप्तुं न ददाति तत एवमलभ्यमाने सा पृच्छयते-कुतस्त्वयेदमानीतम् ! । ततो यस्मात् कूप-सरःप्रभृतेराकरादानीतं तस्य समीपे गत्वा परिष्ठापनिकानियुक्तिभणितेन (गा० ४ आव० हारि० टीका
पत्र ६१९-२०) विधिना परिष्ठापयेत् । अथवा सप्रतिग्रहमपि क्षीरद्रुमस्य च्छायायामेकान्ते 20 स्थापयति । अथ प्रतिग्रहोऽन्यो न विद्यते ततो यद् अपरिश्रावि घटादिकमाई जलभावितं भाजनं तत्र प्रक्षिपति ॥ ५९०१॥ अथ पूर्वमन्यद्रव्ये गृहीते पतितं तत इयं चतुर्भङ्गी
दव्यं तु उण्हसीतं, सीउण्डं चेव दो वि उण्हाई ।
दुण्णि वि सीताइँ चाउलोद तह चंदण घते य ॥ ५९०२॥ इह द्रव्यं चतुर्धा, तद्यथा-किञ्चिदुष्णं शीतपरिणामम् १ अपरं शीतमुष्णपरिणामम् २ 25 अन्यदुष्णमुष्णपरिणामम् ३ अपरं शीतं शीतपरिणामम् ४ । अथासन्नत्वात् प्रथमं चतुर्थभङ्गं व्याख्याति-"चाउलोद" इत्यादि । तण्डुलोदक-चन्दन-घृतादीनि द्रव्याणि 'शीतानि' शीतपरिणामानि ॥ ५९०२ ॥ तृतीयभङ्गमाह
आयाम अंबकंजिय, जति उसिणाणुसिण तो विवागे वी ।.
उसिणोदग-पेजाती, उसिणा वि तणुं गता सीता ॥ ५९०३ ॥ १न्ते 'विविनक्ति' परिष्ठापयति का० ॥ २ °था-"उण्हसीयं" ति “सूचनात् सूत्रम्" इति कृत्वा किञ्चिका० ॥ ३'म् । इह तृतीयभङ्गे स्वभावपरिणामलक्षणे द्वे अपि वस्तुनी उष्णे, चतुर्थभने तु द्वे अपि शीते । अथा' कां ॥ ४ शीतखभावानि शीतपरिणामानि भवन्तीति चतुर्थो भङ्गः॥५९०२॥ अथ प्रथम-तृतीयभङ्गावाह का० ॥५°णा उसिण ताभा•॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340