Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 271
________________ १५३४ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संस्तृत ० प्रकृते सूत्रम् ६-९ कतरस्मिन् वर्तते । भङ्गाः पुनरत्रेत्थमुच्चारणीयाः – उदयं प्रतीत्य विचिकित्से मनःसङ्कल्पे सति विचिकित्सितगवेषी विचिकित्सितग्राही विचिकित्सितभोजी, एवमष्टौ भङ्गाः; अस्तमनमपि प्रतीत्यैवमेवाष्टौ भङ्गाः । द्वयोरप्यष्टभन्योः प्रथम द्वितीय - चतुर्था ऽष्टमा भङ्गा घटमानकत्वाद् शेषाश्चत्वारोऽग्राह्याः || ५८१६ ॥ गतं द्वितीयं संस्तृत विचिकित्ससूत्रम् । अथ तृतीयमसंस्तुतनिर्विचिकित्ससूत्रं व्याचिख्यासुराह - ग्राह्याः, तव - गेलन - ऽद्धाणे, तिविहो तु असंथडी विहे तिविहो । तवऽस्थड मीसस्सा, मासादारोवणा इणमो ।। ५८१७ ॥ असंस्कृतो नाम षष्ठाऽष्टमादिना तपसा क्लान्तो १ ग्लानत्वेन वाऽसमर्थो २ दीर्घाध्वनि वा गच्छन् पर्याप्तं न लभते ३, एष त्रिविधोऽसंस्तृतः । " विहे तिविहो" त्ति 'विहे' अध्वनि 10 योऽसंस्तृतः स त्रिविधः, तद्यथा - अध्वप्रवेशेऽध्वमध्येऽध्वोत्तारे च । तत्र तपोऽसंस्तृतस्य निर्विचिकित्सस्य मासादिका इयमारोपणा भवति । "मीसस्स" त्ति मिश्रो नाम - विचिकित्सा - समापन्नस्तस्यापि मासादिरारोपणा कर्तव्या । सा चोत्तरत्राभिधास्यते । इहापि पूर्वक्रमेण षोडश लताः कर्तव्याः, कालनिष्पन्नं च प्रायश्चित्तं प्राग्वत् ॥ ५८१७ ॥ द्रव्य-भावप्रायश्चित्तयोस्त्वयं विशेषः --- तपोऽसंस्तृतो विकृष्टतपः क्लान्तः पारणकेऽनुद्गतेऽस्तमिते वा उदिता - नस्तमितबुद्ध्या 15 भक्त- पानीये भुञ्जानो यदाऽनुद्गतमस्तमितं वा जानाति ततः परं भुञ्जानस्येदं प्रायश्चित्तम्एक-दुग- तिण्णि मासा, चउमासा पंचमास छम्मासा । सव्वे वि होंति लहुगा, एगुत्तरवड्डिया जेणं ॥ ५८१८ ॥ संलेखनाशेषं यदि ज्ञाते भुङ्क्ते तत एकमासिकम् । पञ्च कवलान् समुद्दिशति द्विमासिकम् । दश लम्बनान् समुद्दिशति त्रैमासिकम् । पञ्चदश कवलान् भुञ्जानस्य चतुर्मासिकम् । विंशर्ति 20 भुञ्जानस्य पञ्चमासिकम् । अथ पञ्च कवला विशुद्धभावेन समुद्दिष्टाः शेषान् पञ्चविंशतिकवलान् ज्ञाते भुङ्क्ते ततः षाण्मासिकम् । एतानि सर्वाण्यपि लघुकानि प्रायश्चित्तानि भवन्ति । कुतः ? इत्याह-येन कारणेनैकोत्तरवृद्ध्या द्वित्र्यादिरूपया अमूनि वर्द्धितानि ॥ ५८१८ ॥ इदमेव व्यनक्ति दुविहाय हो बुढी, सहाणे चेव होइ परठाणे | साणम्मि उ गुरुगा, परठाणे लहुग गुरुगा वा ॥ ५८१९ ॥ द्विविधा च भवति वृद्धिः । तद्यथा – स्वस्थानवृद्धिः परस्थानवृद्धिश्च । स्वस्थानवृद्धिर्नियमाद् गुरुका भवति, तथाहि - यदा मासलघुकाद् मासमेव खस्थानं सङ्क्रामति तदा नियमाद् मासगुरुकमेव, एवं द्विमासलघुकाद् द्विमासगुरुकम्, यावत् षण्मासलघुकात् षण्मासगुरुकम् । → पँरस्थानवृद्धिस्तु विसदृशसङ्ख्या का वृद्धि:, यथा -- मासाद् द्वौ मासौ, द्वाभ्यां मासाभ्यां त्रयो 30 मासाः, एवं यावत् पञ्चमासात् षण्मासाः । एषा - परस्थानवृद्धिर्लघुका वा गुरुका वा भवेत् । 25 १-२ संस्कृत भा० ॥ ३ असंखडी डे० । असंघडी भा० ॥ ४ संखड डे० । संघड भा० ॥ ५ असंस्कृतो भा० ॥ ६ 'संस्कृत' भा० ॥ ७ 'संस्कृतो भा० ॥ र्गतः पाठः भा० कां० एव वर्त्तते एतचिह्नान्त ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340