Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 269
________________ १५३२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संस्तृत प्रकृते सूत्रम् ६-९ निर्विचिकित्सो नाम निःशङ्कमनुदितोऽतिक्रान्तो वा सूर्य इति मन्यते । एवं यो निःशकितेन चेतसा गृह्णाति स यद्यपि उदिते 'ध्रियमाणे वा' अनस्तमिते रवौ गृह्णाति तथाप्यविशुद्धपरिणामतया प्रायश्चित्ते लगति ॥ ५८०८ ।।। एमेव य उदिउ त्ति व, धरइ ति व सोढमुवगतं जस्स । स विवजए विसुद्धो, विसुद्धपरिणामसंजुत्तो ॥ ५८०९॥ एवमेव यस्य 'सोढं' निःसन्दिग्धं चित्ते उपगतम्- यदुतादित्य उदितः 'ध्रियते वा' नाद्याप्यस्तमेति स यद्यपि 'विपर्यये' विपर्यासज्ञाने वर्तते तथापि विशुद्धपरिणाम इति कृत्वा 'विशुद्धः' न प्रायश्चित्ती ॥ ५८०९॥ अथ यदुक्तं सूत्रे-"अह पुण एवं जाणेज्जा-अणुग्गए सूरिए अत्थमिए व" ति तत्रोद्गतमनस्तमितं वा रविं चेतसि कृत्वा गृहीतं पश्चात् पुनर्जातं यथा10 अनुद्गतोऽस्तमितो वा; कथं पुनस्तद् ज्ञातम् ? इत्याह समि-चिंचिणिमादीणं, पत्ता पुप्फा य णलिणिमादीणं । उदय-ऽत्थमणं रविणो, कहिंति विगसंत-मउलिंता ॥ ५८१०॥ __ शमी-चिञ्चिणिकादीनां तरूणां पत्राणि नलिनीप्रभृतीनां च पुष्पाणि विकसन्ति सन्ति रवेरुदयं कथयन्ति । एतान्येव मुकुलयन्ति सन्ति रवेरस्तमयनं कथयन्ति ॥ ५८१० ॥ 15 कथं पुनरादित्य उदितोऽस्तमितो वा न दृश्यते ? इत्याह अन्भ-हिम-वास-महिया-महागिरी-राहु-रेणु-रयछण्णो । मूढदिसस्स व बुद्धी, चंदे गेहे व तेमिरिए ॥ ५८११ ॥ अभ्रसंस्तृते गगने, हिमनिकरे वा पतति, वर्षेण वा महिकया वा पतन्त्या छादिते, महागिरिणा वा अन्तरिते, राहुणा वा सर्वग्रहणेनोदया-ऽस्तमनयोर्गृहीते रवौ, रेणुः-कटकगमनाधु20 खाता धूलिः रजः-औत्पादिकं ताभ्यां वा छन्न उदितोऽस्तमितो वा रविन ज्ञायते । दिग्मूढो वा कश्चिद् अपरां दिशं पूर्व मन्यते, स नीचमादित्यं विलोक्य 'उद्गतमात्र आदित्यः' इतिबुद्ध्या भक्त-पानं गृहीत्वा वसतिं प्रविष्टो यावद् भुक्तस्तावदन्धकारं जातम् , ततो जानातिअस्तमितेऽहं भुक्त इति । अथवा 'गेहे' गृहाभ्यन्तरे कारणजाते दिवा सुप्तः, प्रदोषे चन्द्रे उदिते विबुद्धो विवरेण ज्योत्स्नां प्रविष्टां दृष्ट्वा चिन्तयति-एष आदित्यातपः प्रविष्टः; स च तैमिरिको 25 मन्दं मन्दं पश्यति ततो गृहिणा निमन्त्रितो भुक्तः । एवमादिभिः कारणैरनुदितमुदितं मन्येत उदितं वाऽनुदितम् , अस्तमितमप्यनस्तमितं अनस्तमितमप्यस्तमितम् ॥ ५८११ ॥ ततः सुत्तं पडुच्च गहिते, णातुं इहरा उ सो ण गेण्हंतो। जो पुर्ण गिण्हति णातुं, तस्सेगट्ठाणगं वड्ढे ॥ ५८१२ ॥ यद्युद्गतोऽनस्तमितो वा इतिबुद्ध्या सूत्रं प्रतीत्य "उग्गयवित्तीए अणत्थमियसंकप्पे” इति 30 सूत्रप्रामाण्येन गृहीतं पश्चाच्च ज्ञातम् 'अनुद्गतोऽस्तमितो वा रविः' ततो यद् मुखे यच्च पाणौ यच्च प्रतिग्रहे तत् सर्वमपि व्युत्सृजेत् । 'इतरथा' यद्यसौ पूर्वमेवानुदितमस्तमितं वा अज्ञास्यत् ततो नाग्रहीष्यत् । यः पुनरनुद्गतमस्तमितं वा ज्ञात्वा गृह्णाति गृहीत्वा वा भुतेऽन्येषां वा ददाति १ रवी उद्या-ऽस्तमने न ज्ञायते । तथा रेणुः कां ॥ २ °ण भुंजइ णा ताभा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340