Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 267
________________ .१५३० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संस्तृत प्रकृते सूत्रम् ६-९ यस्मादसौ सर्वां रात्रिमधिसह्य स्तोकं कालं न प्रतीक्षते ततः संक्लिष्टपरिणामः; इतरस्तु चिन्तयति-भूयान् मया कालः सोढव्य अतो भुङ्क्ते, एवमसौ लघुतरः । एवमादेशद्वयं कृत्वा स्थितपक्ष उच्यते--अनुद्गते सूर्य प्रतिसमयं विशुध्यमानः कालो भवतीति कृत्वाऽनुदितभोजी लघुतरः, 'इतरः पुनः' अस्तमितभोजी स तदानीं प्रतिसमयमविशुध्यमानः कालो भवतीति कृत्वा 5 गुरुतरः ॥ ५८०१ ॥ उक्तं कालनिष्पन्नं प्रायश्चित्तम् । अथ द्रव्य-भावनिष्पन्नमभिधित्सुराह गेण्हण गहिए आलोयण, नमोकारे भुंजणे य संलेहे । . सुद्धो विगिंचमाणो, अविगिचण सोहि दव्व भावे य ॥ ५८०२ ॥ अनुदितो वाऽस्तमितो वा रविरेतेषु स्थानेषु ज्ञातो भवेत्-“गेण्हण" त्ति कृते उपयोगे पदभेदे कृते ज्ञातम् , यथा-नाद्याप्युद्गतोऽस्तमितो वा; तदा तत एव निवर्तमानः शुद्धः । 10 अथ ग्रहणं-गवेषणं कुर्वता ज्ञातं तदापि निवर्तमानः शुद्धः। अथ गृहीते ज्ञातं ततो यद् गृहीतं तत् परिष्ठापयन् शुद्धः । अथालोचयता ज्ञातं तदापि विविञ्चन् शुद्धः । अथ भोक्तुकामेन नमस्कारं भणता ज्ञातं ततोऽपि विविञ्चन् शुद्धः । भुञ्जानेन ज्ञातं शेषं परित्यजन् शुद्धः । अथ सर्वस्मिन् भुक्ते संलेखनाकल्पं कुर्वता ज्ञातं तथापि विविञ्चन् 'शुद्धः' न प्रायश्चित्ती । अथ न विविनक्ति ततो द्रव्यतो भावतश्च 'शोधिः' प्रायश्चित्तं भवति ॥ ५८०२ ।। 15 तत्र द्रव्यनिष्पन्नं तावदाह संलेह पण तिभाए, अवड्ड दोभाए पंच मोत्तु भिक्खुस्स । मास चउ छ च लहु-गुरु, अभिक्खगहणे तिम् मूलं ॥ ५८०३ ॥ 'संलेखः' कवलत्रयप्रमाणः तमवशेषमनुद्गतेऽस्तमिते वा ज्ञातेऽपि भुङ्क्ते मासलघु । पञ्च कवलानवशिष्यमाणान् भुङ्क्ते मासगुरु । 'त्रिभागः' दशकवलास्तान् शेषान् भुङ्क्ते चतुर्लघु । 20 'अपार्थः' पञ्चदश कवलास्तानवशेषान् भुञ्जानस्य चतुर्गुरु । "दोभाग" त्ति द्वौ त्रिभागौ विंशतिः कवलास्तान् भुञ्जानस्य षड्लधु । "पंच मोत्तुं" ति त्रिंशतो मध्यात् पञ्च मुक्त्वा ये शेषाः पञ्चविंशतिः कवलास्तान् यदि भुते तदा षड्गुरु । एवं यथा यथा द्रव्यवृद्धिस्तथा तथा प्रायश्चित्तमपि वर्धते । अभीक्ष्णग्रहणं पुनः पुनरासेवां प्रतीत्य द्वितीयं वारमेवंभुञ्जानस्य मासगुरुकादारब्धं छेदे तिष्ठति । तृतीयं वारं चतुर्लघुकादारभ्य मूलं यावद् नेतव्यम् । एवं 25 • त्रिषु वारेषु मूलं यावत् प्रायश्चित्तं » भिक्षोरुक्तम् ॥ ५८०३ ॥ एमेव गणा-ऽऽयरिए, अणवटुप्पो य होति पारंची। तम्मि वि सो चेव गमो, भावे पडिलोम वोच्छामि ॥ ५८०४ ॥ एवमेव गणिनः-उपाध्यायस्याचार्यस्य च चारणिकागमः स एव कर्तव्यः । नवरम्उपाध्यायस्य प्रथमवार मासगुरुकादारब्धं छेदे, द्वितीयवारं चतुर्लघुकादारब्धं मूले, तृतीयवारं 30 चतुर्गुरुकादारब्धं अनवस्थाप्ये तिष्ठति । एवमाचार्यस्यापि प्रथमवारं चतुर्लघुकादारब्धं मूले, द्वितीयवारं चतुर्गुरुकादारब्धमनवस्थाप्ये, तृतीयवारं षड्लघुकादारब्धं पाराश्चिके पर्यवस्यति । गतं द्रव्यनिष्पन्नम् । अथ भावे प्रतिलोमं प्रायश्चित्तं वक्ष्यामि-पूर्व द्रव्यवृद्धौ प्रायश्चित्त_dan Education Internatin एतदन्तर्गतः पाठः भा० नास्ति ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340