Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
भाष्यगाथाः ५७९२-५८०१) पञ्चम उद्देशः ।
१५२९ तृतीया गवेषणायां विशुद्धा त्रिषु' शेषेषु सङ्कल्पादिष्वविशुद्धा ३ । चतुर्थलतायां चाखमितविषयत्वात् चत्वार्यपि पदान्यविशुद्धानि । 'अस्तमितमनःसङ्कल्पः' इति कृत्वा चतस्रोऽप्येता अविशुद्धाः ४ ॥ ५७९६ ॥ अथ विशुद्धलता आह
अणत्थंगयसंकप्पे, पढमा एसी य गहण भोगी य । मण एसि गहण सुद्धा, बितिया अंतम्मि अविसुद्धा ॥ ५७९७ ॥ 5 मण एसणाए सुद्धा, ततिया गह-भोयणेसु अविसुद्धा।
संकप्पें नवरि सुद्धा, तिसु वि असुद्धा उ अंतिमिया ॥ ५७९८ ॥ अस्तमितमनस्तमितं वा सूर्ये यो नियमादनस्तमितं मन्यते तस्य प्रथमा लता, अनस्तमितसङ्कल्पोऽनस्तमितगवेषी अनस्तमितग्राही अनस्तमितभोजी । अत एवाह-"पढमा एसी य गहणे भोगी य" ति प्रथमायामनस्तमितैषी अनस्तमित ग्रहण-भोजी चेति । द्वितीया तु लता 10 मनःसङ्कल्पैषण-ग्रहणपदेषु त्रिषु विशुद्धा अन्त्यपदे अविशुद्धा ॥ ५७९७ ॥
तृतीयलता मनःसङ्कल्पे एषणे च शुद्धा ग्रहणे भोजने चाविशुद्धा । 'अन्त्या नाम' चतुर्थी लता सा नवरं सङ्कल्पपदे विशुद्धा शेषेषु 'त्रिषु' गवेषण-ग्रहण-भोजनपदेषु अशुद्धा ॥५७९८॥ अत्राष्टाखप्यविशुद्धलतासु प्रायश्चित्तमाहपढमाए बितियाए, ततिय चउत्थीऍ नवम दसमाए।
15 एकारस बारसीए, लताएँ चउरो अणुग्धाता ॥ ५७९९ ॥ प्रथमायां द्वितीयस्यां तृतीयस्यां चतुर्थ्यां नवम्यां दशम्यामेकादश्यां द्वादश्यां चेत्यष्टासु लतासु भावस्याविशुद्धतया चत्वारोऽनुद्धाता मासाः ॥ ५७९९ ॥
पंचम छ स्सत्तमिया, अट्ठमिया तेर चोद्दसमिया य ।
पन्नरस सोलसा वि य, लतातों एया विसुद्धाओ ॥ ५८००॥ 20 पञ्चमी षष्ठी सप्तमी अष्टमी त्रयोदशी चतुर्दशी पञ्चदशी षोडशी चेत्यष्टौ लता विशुद्धाः प्रतिपत्तव्याः, सर्वत्रापि भावस्य विशुद्धत्वात् ॥ ५८०० ॥ अत्र शिष्यः पृच्छति
दोण्ह वि कतरो गुरुओ, अणुग्गतऽत्थमियभुंजमाणाणं ।
आदेस दोण्णि काउँ, अणुग्गए लहु गुरू इयरे ॥ ५८०१॥ अनुद्गता-ऽस्तमितभुञ्जानयोर्द्वयोर्मध्ये कतरो गुरुतरः-महादोषः । सूरिराह-आदेशद्वयं 25 कर्तव्यम् । एके आचार्या ब्रुवते- अनुद्गतभोजिनोऽस्तमितभोजी गुरुतरः । कुतः ? इति चेद् उच्यते-स संक्लिष्टपरिणामः, दिवसतो भुक्त्वा भूयो रजन्याः प्रमुख एव भुझे, तदानीं चाविशुध्यमानः कालः; अनुदितभोजी पुनः सकलां रजनीमधिसह्य क्लान्तो मुझे, विशुध्यमानश्च तदानीं कालः, अतोऽसौ लघुतरः । अपरे भणन्ति-अस्तमितमोजिनोऽनुदितभोजी गुरुतरः,
१°यणम्मि अवि तामा० ॥ २ °सु यथाक्रममाद्यासु चतसृषु अनुदितसङ्कल्पविषयासु अन्त्यासु चतसृषु अस्तमितसङ्कल्पगोचरासु भावस्याविशुद्धतया चत्वारोऽनुद्धाता मासाः प्रायश्चित्तं भवेयुः॥ ५७९९ ॥ पंचम को० ॥ ३°व्याः, आद्यासु चतसृषु उद्गतसङ्कल्पगोचरतया अन्त्यासु पुनरनस्तमितसङ्कल्पविषयतया सर्वत्रा का ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340