________________
भाष्यगाथाः ५४००-८] चतुर्थ उद्देशः ।
१४३५ खयमेव कदाचिद् गच्छेत् पूर्वाचार्येण वा नीयेत, कालदोषेण वा ममत्वीभावमालम्ब्य वाचयिष्यन्ति इति दिग्बन्धोऽनुज्ञातः ॥ ५४०४ ॥ इदमेव सविशेषमाह
ससहायअवत्तेणं, खेत्ते वि उपट्टियं तु सच्चित्तं ।
दलियं णाउं बंधति, उभयममत्तट्टया तं वा ॥ ५४०५ ॥ अव्यक्तेन ससहायेन यः शैक्षो लब्धो यश्च परक्षेत्रेऽपि उपस्थितः सचित्तः स पूर्वाचार्यस्य 5 क्षेत्रिकाणां वा यद्यपि आभाव्यस्तथापि तं 'दलिकं' परममेधाविनमाचार्यपदयोग्यं ज्ञात्वा यद्यात्मीये गच्छे नास्त्याचार्यपदयोग्यस्ततस्तस्यात्मीयां दिशं बध्नाति, स्वशिष्यत्वेन स्थापयतीत्यर्थः । कुतः ? इत्याह-उभयस्य-साधु-साध्वीवर्गस्य तत्र शैक्षे ममत्वम्-'अस्माकमयम् इत्येवं ममीकारो भूयात्' इति कृत्वा, यद्वा स्वगच्छीयसाधूनां तस्य च शैक्षम्य 'परस्परं सज्झिलका वयम् इत्येवं ममत्वं भविष्यति' इति बुद्ध्या तमात्मीयशिष्यत्वेन बध्नाति । "तं व" त्ति यो वा 10 प्रतीच्छक आयातस्तमपि ग्रहण-धारणासमर्थ विज्ञाय व शिष्यं स्थापयति ॥ ५४०५ ॥ एवं शैक्षः प्रतीच्छको वा कारणे शिष्यतया निबद्धः सन् यदा निर्मातो भवति तदा
आयरिए कालगते, परियट्टइ तं गणं च सो चेव ।
चोएति य अपदंते, इमा उ तहिं मग्गणा होइ ॥ ५४०६ ॥ आचार्ये कालगते सति गच्छस्य निबद्धाचार्यस्य च व्यवहारो भण्यते-स खयमेव तं 15 गणं परिवर्तयति । स च गच्छो यदि श्रुतं न पठति ततस्तमपठन्तं नोदयति । यदि नोदिता अपि ते गच्छसाधवो न पठन्ति तत इयमाभवद्व्यवहारमार्गणा भवति ॥ ५४०६ ॥
साहारणं तु पढमे, वितिए खित्तम्मि ततिय सुह-दुक्खे ।
अणहिजंते सीसे, सेसे एकारस विभागा ॥ ५४०७ ।। कालगतस्याचार्यस्य प्रथमे वर्षे सचित्तादिकं साधारणम् , यदसौ प्रतीच्छकाचार्य उत्पादयति 20 तत् तस्यैवाभवति यद् इतरे गच्छसाधव उत्पादयन्ति तत् तेषामेवाभवतीति भावः । द्वितीये वर्षे यत् क्षेत्रोपसम्पन्नो लभते तत् तेऽपठन्तो लभन्ते । तृतीये वर्षे यत् सुख-दुःखोपसम्पन्नो लभते तत् ते लभन्ते । चतुर्थे वर्षे कालगताचार्यशिष्या अनधीयाना न किञ्चिल्लभन्ते । शेषा नाम-येऽधीयते तेषामधीयानानां वक्ष्यमाणा एकादश विभागा भवन्ति ॥ ५४०७ ॥ शिष्यः पृच्छति-क्षेत्रोपसम्पन्नः सुख-दुःखोपसम्पन्नो वा किं लभते ? सूरिराह- 25
खेत्तोवसंपयाए, बावीसं संथुया य मित्ता य ।
सुह-दुक्ख मित्तवज्जा, चउत्थए नालबद्धाई ॥ ५४०८ ॥ क्षेत्रोपसम्पदा उपसम्पन्नः 'द्वाविंशतिम्' अनन्तर-परम्परावल्लीबद्धान् माता-पित्रादीन् जनान् लमते, 'संस्तुतानि च' पूर्व-पश्चात्संस्तवसम्बद्धानि प्रपौत्र-श्वशुरादीनि 'मित्राणि च' सहजातकादीनि लभते, दृष्टाभाषितानि तु न लभते । सुख-दुःखोपसम्पन्नस्तु एतान्येव मित्रवर्जानि लभते । चतुर्थस्तु-पञ्चविधोपसम्पत्क्रमप्रामाण्यात् श्रुतोपसम्पन्नः स केवलान्येव द्वाविंशतिनालबद्धानि लभते, अयं च प्रसङ्गेनोक्तः । क्षेत्रोपसम्पन्न-सुखदुःखोपसम्पन्नयोर्यद् आभाव्यमुक्तं १ भते ? इत्यपि तावद् वयं न जानीमहे; सूरि° कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org