________________
१४३६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ गणान्त०प्रकृते सूत्रम् २० तत् ते शिष्या अनधीयाना द्वितीये तृतीये च वर्षे यथाक्रमं लभन्ते, चतुर्थे वर्षे सर्वमप्या. चार्यस्याभवति न तेषाम् ॥ ५४०८ ॥
ये तु शिष्या अधीयते तेषां विधिरुच्यते-तस्य कालगताचार्यस्य चतुर्विधो गणो भवेत्-शिष्याः शिष्यिकाः प्रतीच्छकाः प्रतीच्छिकाश्चेति । एतेषां पूर्वोद्दिष्ट-पश्चादुद्दिष्टयोः 5 संवत्सरसङ्ख्यया एकादश गमा भवन्ति । पूर्वोद्दिष्टं नाम-यत् तेनाचार्येण जीवता तेषां श्रुतमु. द्दिष्टम् , यत् पुनस्तेन प्रतीच्छकाचार्येणोद्दिष्टं तत् पश्चादुद्दिष्टम् । तत्र विधिमाह
पुवुद्दिढे तस्सा, पच्छुद्दिढे पवाययंतस्स।
संवच्छरम्मि पढमे, पडिच्छए जंतु सच्चित्तं ॥ ५४०९ ॥ यद् आचार्येण जीवता प्रतीच्छकस्य पूर्वमुद्दिष्टं तदेव पठन् प्रथमे वर्षे यत् सचित्तमचित्तं 10 वा स लभते तत् 'तस्य' कालगताचार्यस्याभवति, एष एको विभागः । अथ पश्चादुद्दिष्टं ततः
प्रथमसंवत्सरे यत् सचित्तादिकं लभते तत् सर्वं 'प्रवाचयतः' प्रतीच्छकाचार्यस्याभवति, एष द्वितीयो विभागः ॥ ५४०९ ।।
पुव्वं पच्छुद्दिवे, पडिच्छए जं तु होइ सञ्चित्तं ।
संवच्छरम्मि वितिए, तं सव्वं पयाययंतस्स ॥ ५४१०॥ 15 प्रतीच्छकः पूर्वोद्दिष्टं पश्चादुद्दिष्टं वा पठतु यत् तस्य सचित्तादिकं तद् द्वितीये वर्षे सर्व__मपि प्रवाचयतो भवति, एष तृतीयो विभागः ॥ ५४१० ॥ अथ शिष्यस्याभिधीयते
पुव्वं पच्छुद्दिढे, सीसम्मि य जं तु होइ सञ्चित्तं ।
संवच्छरम्मि पढमे, तं सव्वं गुरुस्स आभवइ ।। ५४११ ॥ शिप्यस्य कालगताचार्येण वा उद्दिष्टं भवेत् प्रतीच्छकाचार्येण वा तदाऽसौ पठन् यत् 20 सचित्तादिकं लभते तत् सर्व प्रथमे संवत्सरे 'गुरोः' कालगताचार्यस्याभवति, एष चतुर्थों विभागः ॥ ५४११॥
पुव्वुद्दिष्टुं तस्सा, पच्छुद्दिढ़ पवाययंतस्स ।
संवच्छरम्मि बितिए, सीसम्मि उजं तु सचित्तं ॥ ५४१२॥ शिष्यस्य पूर्वोद्दिष्टमधीयानस्य द्वितीये वर्षे सचित्तादिकं कालगताचार्यस्याभवति, पञ्चमो 26 विभागः । पश्चादुद्दिष्टं पठतः शिष्यस्य सचित्तादिकं प्रवाचयत आभाव्यं भवति, षष्ठो विभागः ॥ ५४१२॥
पुव्वं पच्छुद्दिद्वे, सीसम्मि य जं तु होइ सचित्तं ।
संवच्छरम्मि ततिए, तं सव्वं पवाययंतस्स ॥ ५४१३ ॥ पूर्वोद्दिष्टं पश्चादुद्दिष्टं वा पठति शिष्ये सचित्तादिकं तृतीये वर्षे सर्वमपि प्रवाचयत आभ30 वति, सप्तमो विभागः ॥ ५४१३ ॥
पुष्वुद्दिष्टे तस्सा, पच्छुट्टेि पवाययंतस्स ।
संवच्छरम्मि पढमे, सिस्सिणिए जंतु सचित्तं ॥ ५४१४ ॥ शिद्रिय कायां पूर्वोदिवं पठन्त्यां सचित्तादिकं तस्य कालगताचार्यस्य प्रथमे वर्ष आभाज्यम् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org