Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 218
________________ भाष्यगाथाः ५५९२-९६] चतुर्थ उद्देशः। १४८१ अस्य सम्बन्धमाह पच्छित्तमेव पगतं, सहुस्स परिहार एव न उ सुद्धो। तं वहतो का मेरा, परिहारियसुत्तसंबंधो ॥ ५५९४ ॥ प्रायश्चित्तमेवानन्तरसूत्रे प्रकृतम् , तच्च 'सहिष्णोः ' समर्थस्य प्रथमसंहननादिगुणयुक्तस्य परिहारतपोरूपमेव दातव्यम् , न पुनः शुद्धतपोरूपम् , अतः 'तत्' परिहारतपो वहतः 'का मर्यादा' का सामाचारी ? इति । अस्यां जिज्ञासायामिदं परिहारिकसूत्रमारभ्यते । एष सम्बन्धः ॥ ५५९४ ॥ वीसुंभणसुत्ने वा, गीतो बलवं च तं परिट्टप्पा । चोयण कलहम्मि कते, तस्स उ नियमेण परिहारो ॥ ५५९५॥ अथवा 'विष्वग्भवनसूत्रे' मरणसूत्रे गीतार्थः 'बलवांश्च' प्रथमसंहननयुक्तः 'तद्' मृतक 10 परिष्ठाप्य काष्ठमानयन् गृहस्थेन नोदितो यदि कलहं करोति तदा तस्य नियमेन परिहारो दातव्यः, तस्य च विधिरनेनाभिधीयते ॥ ५५९५ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-परिहारकल्पस्थितस्य भिक्षोः कल्पते आचार्योपाध्यायेन 'तदिवसम्' इन्द्रमहाद्युत्सवदिने एकस्मिन् गृहे 'पिण्डपातं' विपुलमवगाहिमादिभक्तलाभं दापयितुम् । ततः परं "से" तस्य नो कल्पते अशनं वा पानं वा खादिम वा खादिमं 16 वा दातुमनुप्रदातुं वा । तत्र दातुं एकशः, अनुप्रदातुं पुनः पुनः । किन्तु कल्पते "से" तस्य परिहारिकस्यान्यतरद् वैयावृत्यं कर्तुम् । तद्यथा-उत्थापनं वा निषादनं वा त्ववर्तापनं वा उच्चार-प्रश्रवण-खेल-सिङ्घानादीनां च विवेचनं वा-परिष्ठापनं 'विशोधनं वा' उच्चारादिखरण्टितोपकरणादेः प्रक्षालनं कर्तुम् । अथ पुनरेवं जानीयात्-'छिन्नापातेषु' व्यवच्छिन्नगमा-ऽऽग. मेषु पथिषु 'आतुरः' ग्लानः 'झिझितः' बुभुक्षातः 'पिपासितः' तृषितो न शक्नोति विवक्षितं 20 ग्रामं प्राप्तुम् , अथवा ग्रामादावपि तिष्ठतां सः 'तपखी' षष्ठा-ऽष्टमादिपरिहारतपःकर्म कुर्वन दुर्बलो भवेत् , ततो भिक्षाचर्यया क्लान्तः सन् मूछेद्वा प्रपतेद्वा, एवं "से" तस्य कल्पते अशनादिकं दातुमनुप्रदातुं वा । एष सूत्रार्थः ॥ अथ नियुक्तिविस्तर: कंटगमादीसु जहा, आदिकडिल्ले तहा जयंतस्स। अवसं छलणाऽऽलोयण, ठवणा जुत्ते य वोसग्गो ॥ ५५९६ ॥ १॥ ननु स भगवान् 'प्रमादो न कर्तव्यः' इत्युपदेशेन संयमाध्वनि गच्छन् कथं परिहारकत्वं प्राप्तः ? इति उच्यते-यथा कण्टकाकीर्णे मार्गे उपयुक्तस्यापि कण्टको गति, आदिशब्दाद विषमे वा यथोपयुक्तोऽप्यागच्छन् प्रपतति, कृतप्रयत्नो वा यथा नदीवेगेन ह्रियते, सुशिक्षि. तोऽपि यथा खङ्गेन लाञ्छयते; एवं कण्टकादिस्थानीयमादिकडिल्लम्-आद्यगहनं यद् उद्गमोत्पादनैषणारूपं ज्ञानादिरूपं वा तत्र यतमानस्याप्यवश्यं कस्यापि च्छलना भवति, छलितेन 30 चावश्यमालोचना दातव्या । ततो यः संहनना-ऽऽगमादिभिर्गुणैर्युक्तः-सहितस्तस्य 'स्थापना' परिहारतपः प्रायश्चित्तदानं कर्तव्यम् । तत्र चायं विधिः-प्रशस्तेषु द्रव्य-क्षेत्र-काल-भावेषु १ वी चतुर्थ-षष्टा-एम-दशम-झादशलक्षणं पार° कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340