Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
१४९०
10
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ महानदीप्रकृते सूत्रम् ३२ यच्चानेषणीयमुपधि ग्रहीष्यन्ति तृणानि वा सेविष्यन्ते तन्निष्पन्नं सर्वमपि प्राप्नोति । तरपण्यं वा स मार्गयेत् , अदीयमाने चिरं निरन्ध्यात् , दीयमानेऽधिकरणम् ।। ५६३०॥ गताः प्रत्यनीकदोषाः । अथ 'बहवः प्रत्यपायाः' इति व्याचष्टे
संघट्टणाऽऽयसिंचण, उवगरणे पडण संजमे दोसा।
सावत तेणे तिण्हेगतर, विराहणा संजमा-ऽऽयाए ॥ ५६३१ ॥ त्रसादीनां सङ्घटना, जलेन वा सेचनमुपकरणस्यात्मनो वा, पतनं वा, एते संयमे दोषाः । श्वापदकृता स्तेनकृता वा आत्मविराधना । "तिण्हेगयर" ति अनुकम्पा-प्रत्यनीकता-तदुभयादिरूपाणां त्रयाणामेकतरस्मिन् संयमविराधनाऽऽत्मविराधना च भवति । एष सङ्ग्रहगाथासमासार्थः ॥ ५६३१ ॥ अथैनामेव विवृणोति
तस-उदग-वणे घट्टण, सिंचण लोगे अ णावि सिंचणता।
बुब्भण उवधाऽऽतुभये, मगरादि समुद्दतेणा य ॥ ५६३२ ॥ जलोद्भवानां त्रसानाम् उदकस्य वा सेवालादिरूपस्य वनस्पतेर्वा सट्टनं भवेत् । लोकेन नाविकेन वा साधोरुपकरणस्य वा सेचनं क्रियेत । अतिसम्बाधे वा उपधेरात्मनस्तदुभयस्य
वा स्ताघेऽस्ताघे वा जले "वुन्भणं" बोलनं भवति । मकरादयः श्वापदाः समुद्रस्तेनाश्च तत्र 16 भवेयुः ॥ ५६३२ ।। इदमेव व्याचष्टे
ओहार-मगरादीया, घोरा तत्थ उ सावया।
सरीरोवहिमादीया, णावातेणा य कत्थई ।। ५६३३ ॥ ओहार-मकरादयः 'तत्र' नद्यां घोराः श्वापदा भवन्ति । ओहारः-मत्स्यविशेषः, स किल नावमधस्तले जलस्य नयति । शरीरहरा उपधिहरा वा आदिशब्दादुभयहरा वा नौस्तेनाः कुत्रापि 20 भवेयुः, एतैरात्मन उपधेर्वा विनाशे तन्निष्पन्नं प्रायश्चित्तम् ॥ ५६३३ ॥ अथ "तिण्हेगयर" ति पदं व्याख्याति
सावय तेणे उभयं, अणुकंपादी विराहणा तिण्णि ।
संजम आउभयं वा, उत्तर-णावुत्तरंते वा ॥ ५६३४ ॥ श्वापदाः १ स्तेनाः २ श्वापदा अपि स्तेना अपि ३ एतत् त्रयम् । अथवा अनुकम्पया १ 25 प्रत्यनीकतया २ अनुकम्पा-प्रत्यनीकार्थतया वा ३ । अथवा तिस्रो विराधनाः, तद्यथा
संयमविराधना १ आत्मविराधना २ उभयविराधना वा ३ । यदि वा उदकमवतरतः १ नावारूढस्य २ नाव उत्तरतश्चेति ३ । एतेषां त्रयाणामेकतरस्मिन् बहवः प्रत्यपाया भवन्ति ॥५६३४ ॥ उक्तं सन्तरणम् । अथोत्तरणमाह
उत्तरणम्मि परुविते, उत्तरमाणस्स चउलहू होति ।
आणाइणो य दोसा, विराहणा संजमा-ऽऽताए ॥ ५६३५॥ ___ उत्तरणं नाम-यद् नावं विना वक्ष्यमाणैः सङ्घट्टादिभिः प्रकारैरुत्तीर्यते, तस्मिन्नुत्तरणे प्ररूपिते सति इदमभिधीयते-यदि जवादिनाऽप्युत्तरति तदा चतुर्लघु, आज्ञादयश्च दोषाः, संयमा-ऽऽत्मविराधना च भवति ॥ ५६३५ ॥ तस्य चोत्तरणस्यैते मेदाः
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340