SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १४९० 10 सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ महानदीप्रकृते सूत्रम् ३२ यच्चानेषणीयमुपधि ग्रहीष्यन्ति तृणानि वा सेविष्यन्ते तन्निष्पन्नं सर्वमपि प्राप्नोति । तरपण्यं वा स मार्गयेत् , अदीयमाने चिरं निरन्ध्यात् , दीयमानेऽधिकरणम् ।। ५६३०॥ गताः प्रत्यनीकदोषाः । अथ 'बहवः प्रत्यपायाः' इति व्याचष्टे संघट्टणाऽऽयसिंचण, उवगरणे पडण संजमे दोसा। सावत तेणे तिण्हेगतर, विराहणा संजमा-ऽऽयाए ॥ ५६३१ ॥ त्रसादीनां सङ्घटना, जलेन वा सेचनमुपकरणस्यात्मनो वा, पतनं वा, एते संयमे दोषाः । श्वापदकृता स्तेनकृता वा आत्मविराधना । "तिण्हेगयर" ति अनुकम्पा-प्रत्यनीकता-तदुभयादिरूपाणां त्रयाणामेकतरस्मिन् संयमविराधनाऽऽत्मविराधना च भवति । एष सङ्ग्रहगाथासमासार्थः ॥ ५६३१ ॥ अथैनामेव विवृणोति तस-उदग-वणे घट्टण, सिंचण लोगे अ णावि सिंचणता। बुब्भण उवधाऽऽतुभये, मगरादि समुद्दतेणा य ॥ ५६३२ ॥ जलोद्भवानां त्रसानाम् उदकस्य वा सेवालादिरूपस्य वनस्पतेर्वा सट्टनं भवेत् । लोकेन नाविकेन वा साधोरुपकरणस्य वा सेचनं क्रियेत । अतिसम्बाधे वा उपधेरात्मनस्तदुभयस्य वा स्ताघेऽस्ताघे वा जले "वुन्भणं" बोलनं भवति । मकरादयः श्वापदाः समुद्रस्तेनाश्च तत्र 16 भवेयुः ॥ ५६३२ ।। इदमेव व्याचष्टे ओहार-मगरादीया, घोरा तत्थ उ सावया। सरीरोवहिमादीया, णावातेणा य कत्थई ।। ५६३३ ॥ ओहार-मकरादयः 'तत्र' नद्यां घोराः श्वापदा भवन्ति । ओहारः-मत्स्यविशेषः, स किल नावमधस्तले जलस्य नयति । शरीरहरा उपधिहरा वा आदिशब्दादुभयहरा वा नौस्तेनाः कुत्रापि 20 भवेयुः, एतैरात्मन उपधेर्वा विनाशे तन्निष्पन्नं प्रायश्चित्तम् ॥ ५६३३ ॥ अथ "तिण्हेगयर" ति पदं व्याख्याति सावय तेणे उभयं, अणुकंपादी विराहणा तिण्णि । संजम आउभयं वा, उत्तर-णावुत्तरंते वा ॥ ५६३४ ॥ श्वापदाः १ स्तेनाः २ श्वापदा अपि स्तेना अपि ३ एतत् त्रयम् । अथवा अनुकम्पया १ 25 प्रत्यनीकतया २ अनुकम्पा-प्रत्यनीकार्थतया वा ३ । अथवा तिस्रो विराधनाः, तद्यथा संयमविराधना १ आत्मविराधना २ उभयविराधना वा ३ । यदि वा उदकमवतरतः १ नावारूढस्य २ नाव उत्तरतश्चेति ३ । एतेषां त्रयाणामेकतरस्मिन् बहवः प्रत्यपाया भवन्ति ॥५६३४ ॥ उक्तं सन्तरणम् । अथोत्तरणमाह उत्तरणम्मि परुविते, उत्तरमाणस्स चउलहू होति । आणाइणो य दोसा, विराहणा संजमा-ऽऽताए ॥ ५६३५॥ ___ उत्तरणं नाम-यद् नावं विना वक्ष्यमाणैः सङ्घट्टादिभिः प्रकारैरुत्तीर्यते, तस्मिन्नुत्तरणे प्ररूपिते सति इदमभिधीयते-यदि जवादिनाऽप्युत्तरति तदा चतुर्लघु, आज्ञादयश्च दोषाः, संयमा-ऽऽत्मविराधना च भवति ॥ ५६३५ ॥ तस्य चोत्तरणस्यैते मेदाः 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy