________________
भाष्यगाथाः ५६३१-३८] चतुर्थ उद्देशः ।
१४९१ जंघद्धा संघट्टो, संघटुवरिं तु लेवों जा णाभी ।
तेण परं लेवोवरि, तुंबोडुव णाववजेसु ॥ ५६३६ ॥ यस्मिन् जले उत्तरतां पादतलादारभ्य जवाया अर्द्ध ब्रुडति स सङ्घः । तस्यैव सङ्घस्योपरि यावद् नाभिरेतावद् यत्र प्रविशति स लेपः । 'ततः परं' नाभेरारभ्योपरि सर्वमपि लेपोपरि भण्यते । तच्च द्विधा-स्ताघमस्ताघं च । यत्र नासिका न ब्रुडति तत् स्ताघम् , यत्र तु नासिका ब्रुडति तद् अस्ताघम् । तच्च तुम्बोडुपादिभिर्नीवर्जितैर्यद उत्तीर्यते तद् उत्तरणं मन्तव्यम् । तत्रोत्तरणे एते संयमा-ऽऽत्मविराधनादोषाः ।। ५६३६ ॥
संघट्टणा य सिंचण, उवगरणे पडण संजमे दोसा।
चिक्खल्ल खाणु कंटग, सावत भय वुब्भणे आया ॥ ५६३७ ॥ लोकेन साधोः सङ्घट्टनं भवेत् , साधुर्वा जलं सट्टयेत् , सङ्घटनग्रहणात् परितापनमपदावणं 10 च सूचितम् , एतेषु कायनिष्पन्नं प्रायश्चित्तम् । प्रत्यनीकः साधुमुपधिं वा सिञ्चति, स्वयं वा साधुरात्मानं सिञ्चेत् , साधोरुपकरणस्य जले पतनम् , एते संयमे दोषाः । तथा चिक्खल्ले यद् निमज्जति, जलमध्ये वा चक्षुरविषयतया स्थाणुना कण्टकेन वा यद् विध्यते, मकरादिश्वापदभयं वा भवति, नदीवाहेन वा वाहनम् , एषा सर्वाऽप्यात्मविराधना ॥ ५६३७ ॥ सूत्रम्
15 अह पुण एवं जाणिज्जा-एरवइ कुणालाए जत्थ चकिया एगं पायं जले किच्चा एगं पायं थले किच्चा एवण्हं कप्पइ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा; एवं नो चकिया एवण्हं नो कप्पइ अंतो मासस्स दुक्खुत्तो वा 20
तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा ३३॥ अथ पुनरेवं जानीयात्-ऐरावती नाम नदी कुणालाया नगर्याः समीपे जङ्घार्द्धप्रमाणेनोद्वेधेन वहति तस्यामन्यस्यां वा यत्रैवं “चक्किया" शक्नुयात् उत्तरीतुमिति शेषः । कथम् ? इत्याह-एकं पादं जले कृत्वा एकं पादं 'स्थले' आकाशे कृत्वा, “एवण्ह"मिति वाक्याल. कारे, यत्रोत्तरीतुं शक्नुयात् तत्र कल्पते अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्वो वा 'उत्तरीतुं' लवयितुं 25 'सन्तरीतुं वा' भूयः प्रत्यागन्तुम् । यत्र पुनरेवमुत्तरीतुं न शक्नुयात् तत्र नो कल्पते अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीतुं वा सन्तरीतुं वा इति सूत्रार्थः ॥ अथ भाष्यकृद् विषमपदानि व्याचष्टे
एरवइ जम्हि चक्किय, जल-थलकरणे इमं तु णाणत्तं । [नि.४२२८-५५]
एगो जलम्मि एगो, थलम्मि इहई थलाऽऽगासं ॥ ५६३८ ॥ 30 १ गाथायां संघट्टणाऽऽयसिंचण इत्याकारप्रश्लेषेऽयमर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org