________________
१४९२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [महानदीप्रकृते सूत्रम् ३३
ऐरावती नाम नदी, यस्यां जल-स्थलयोः पादकरणेनोत्तरीतुं शक्यम् । इदमेव चात्र नानात्वम्-यत् पूर्वसूत्रोक्तासु महानदीषु मासान्तद्वौं त्रीन् वा वारान् उत्तरीतुं न कल्पते, अस्यां तु कल्पते । यच्चात्र ‘एको जले एकश्च पादः स्थले' इत्युक्तं तद् इह स्थलमाकाशमुच्यते॥५६३८॥
एरवइ कुणालाए, वित्थिण्णा अद्धजोअणं वहति ।।
कप्पति तत्थ अपुण्णे, गंतुं जा वेरिसी अण्णा ॥ ५६३९ ऐरावती नदी कुणालानगर्या अदूरेऽर्द्धयोजनं विस्तीर्णा वहति, सा चोद्वेधेन जवार्द्धप्रमाणा, तत्र ऋतुबद्धे काले मासकल्पे अपूर्णे त्रिकृत्वो भिक्षाग्रहण-लेपानयनादौ कायें यतनया गन्तुं करुपते । या वा ईदृशी अन्याऽपि नदी तस्यामपि त्रिकृत्वो गन्तुं कल्पते ॥ ५६३९ ॥
कृता विषमपदव्याख्या भाष्यकृता । सम्प्रति नियुक्तिविस्तरः10. 'संकम थले य णोथल, पासाणजले य वालुगजले य ।
सुद्धदग पंकमीसे, परित्तऽणंते तसा चेव ॥ ५६४० ॥ - नदीमुत्तरतस्त्रयः पन्थानः, तद्यथा-सङ्क्रमः १ स्थलं २ नोस्थलं ३ च । तत्र यद् एकाङ्गिकादिना सङ्क्रमेण गम्यते से सङ्क्रमः । स्थलं नाम-नद्याः कूपरेण वरणेन वा यद् नदीजलं
परिहृत्य गम्यते। नोस्थलं चतुर्विधम्-पाषाणजलं वालुकाजलं शुद्धोदकं पङ्कमिश्रजलम् । एतेषु 15 चतुर्ध्वपि गच्छतां यथासम्भवं परीत्ता-ऽनन्तकायास्त्रसाश्च विराधनां प्राप्नुवन्ति ॥५६४०॥ तथा
उदए चिक्खल्ल परित्त-ऽणंतकाइग तसे त मीसे त ।
अकंतमणकंते, संजोए होति अप्पबहुं ॥५६४१ ॥ उदके चिक्खल्लादिकः पृथिवीकायः वनस्पतयश्च परीत्तकायिका अनन्तकायिका वा त्रसाश्च द्वीन्द्रियादयो भवेयुः । एते च सर्वेऽपि यथासम्भवं मिश्रा सचित्ता वा आक्रान्ता अना20 क्रान्ता वा स्थिरा अस्थिरा वा सप्रत्यपाया निष्प्रत्यपाया वा भवेयुः । एतेषु च बहवः संयोगा उपयुज्य वक्तव्याः। तेषु यत्राल्पबहुत्वं भवति, अल्पतराः संयमा-ऽऽत्मविराधनादोषा बहवश्व गुणा भवन्तीत्यर्थः, तत्र कारणे समुत्पन्ने गन्तव्यम् ।। ५६४१ ॥ __यत्र च सङ्क्रमो भवति तत्रामी भङ्गविकल्पा भवेयुः
एगंगिय चल थिर पारिसाडि सालंब वजिए सभए ।
पडिपक्खेसु त गमणं, तजातियरे व संडेवा ॥ ५६४२ ॥ सक्रम एकाङ्गिको वा स्यादनेकाङ्गिको वा । एकाङ्गिकः-य एकेन फलकादिना कृतः, अनेकानिकः-अनेकफलकादिनिर्मितः । अत्रैकाङ्गिकेन गन्तव्यं नानेकाङ्गिकेन, एवं स्थिरेण न च चलेन, अपरिशाटिना न परिशाटिना, सालम्बेन गन्तव्यं न 'वर्जितेन' निरालम्बेनेत्यर्थः । सालम्बोऽपि द्विधा-एकतः सालम्बो द्विधा सालम्बश्च । पूर्व द्विधा सालम्बेन, तत 30 एकतः सालम्बेनापि । तथा निर्भयेन गन्तव्यं न सभयेन । अत एवाह-"पडिपक्खेसु य गमणं" ति अनेकानिक-चल-परिशाटि-निरालम्ब-सभयाख्यानां पञ्चानां पदानां ये एकाङ्गि
१ "संकम थले य• पुरातनं गाथाद्वयम्" इति विशेषचूर्णी ॥ २ स पन्था अप्युपचारात् सङ्ग का० ॥ ३°श्रा उपलक्षणत्वात् सचि' का० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org