SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५६३९-४६ ] चतुर्थ उद्देशः । १४९३ कादयः प्रतिपक्षास्तेषु गमनं कर्तव्यम् । अत्र पञ्चभिः पदैर्द्वात्रिंशद् भङ्गाः-1 - एकाङ्गिकः स्थिरोऽपरिशाटी सालम्बो निर्भय इत्यादि । एषु प्रथमो भङ्गः शुद्धः शेषा अशुद्धाः, तेष्वपि बहुगुणतरेषु गमनं यतना च कर्तव्या । सण्डेवका अपि सङ्क्रमभेद एव, अत आह— तज्जातकाः 'इतरे वा' अतज्जातकाः सण्डेयका भवेयुः । तत्रैव जातास्तज्जाताः शिलादयः, अन्यतः स्थानादानीय स्थापिता अतज्जाताः इट्टालकादयः । तेष्वपि चला ऽचलाऽऽक्रान्ता ऽना- 5 कान्तादयो भेदाः कर्तव्याः || ५६४२ ॥ उक्तः सङ्गमः । अथ स्थलमाह - नदिकोप्पर वरणेण व, थलमुदयं गोथलं तु तं चउहा । उवलजल वालुगजलं, सुद्धमही पंकमुदगं च ॥ ५६४३ ॥ नद्या आकुण्टितकूर्पराकारं वलनं नदीकूर्परमुच्यते । जलोपरि कपाटानि मुक्त्वा पालिबन्धः क्रियते स वरण उच्यते । एताभ्यां यदुदकं परिहृत्य गम्यते तत् स्थलं द्रष्टव्यम् । अथ नोस्थलं 10 तत् चतुर्विधम् – 'उपलजलम्' अधः पाषाणा उपरि जलं १ ' वालुकाजलम्' अधो वालुका उपरि पानीयं २ 'शुद्धोदकं' अधः शुद्धा मही उपरि जलं ३ 'पङ्कोदकं' अधः कर्दम उपरि जलम् ४ ॥ ५६४३ ॥ पङ्कोदकस्य चामूनि विधानानि— लत्तपय खुलए, तहऽद्धजंघाऍ जाणुउवरिं च । लेवे य लेववरिं, अकंतादी उ संजोगा ।। ५६४४ ॥ यावन्मात्रमलक्तकेन पादो रज्यते तावन्मात्रो यत्र पथि कर्दमः सं लत्तकपथः । खुलकमात्रः- पादघुण्टकप्रमाणः । अर्द्धजङ्घामात्रः - जङ्घार्द्धं यावद् भवति । 'जानूपरि' जानुमात्रं यावद् भवति । 'लेपः' नाभिप्रमाणः । तत ऊर्द्ध सर्वोऽपि लेपोपरि । एते सर्वेऽपि कर्दमप्रकाराः । चतुर्विधे नोस्थले कर्दमे चाक्रान्ता ऽनाक्रान्त-समय- निर्भयादयः संयोगा यथासम्भवं वक्तव्याः । अमुना दोषेण युक्तः पन्थाः परिहर्तव्यः ॥ ५६४४ ॥ 1 जो वि य होतऽकंतो, हरियादि-तसेहिं चैव परिहीणो । तेण वि तु न गंतव्वं, जत्थ अवाया इमे होंति ॥ ५६४५ ॥ योऽपि च पन्थाः ' आक्रान्तः' दरमलितो हरितादिभिस्त्रसैश्च परिहीनो भवति तेनापि न गन्तव्यम् । यत्र अमी अपाया भवन्ति ।। ५६४५ ॥ १ “थले णाम परिरऍणं गम्मइ, जहा कोप्परादीणं । गोथलं पाणियं तं चउन्त्रिदं” इति विशेषचूर्णौ ॥ २ खलुए मो० ० । खुलुए भा० । एवमग्रेऽपि सर्वत्र ॥ ३ खलुक° मो० ले० । खुलुक भा० । एवमप्रेऽपि सर्वत्र ॥ ४ तानेवाह इत्यवतरणं कां० ॥ For Private & Personal Use Only 15 गिरिनदि पुण्णा वाला ऽहि-कंटगा दूरपारमावत्ता । चिक्खल्ल कल्लुगाणि य, गारा सेवाल उबला य ।। ५६४६ ॥ यत्र पथि गिरिनदी 'पूर्णा' तीव्रवेगा वहति, मकरादयो व्याला अयो वा यत्र जलमध्ये भवन्ति, कण्टका वा पूरेणानीताः, दूरपारम् आवर्तबहुलं वा जलं भवेत्, चिक्खल्लो वा नदीषु तादृशो यत्र पादो निमज्जति, 'कल्लुका:' गाथायां नपुंसकत्वं प्राकृतत्वात् पाषाणेषु द्वीन्द्रियः जातिविशेषा भवन्ति ते पादौ छेदयन्ति, 'गारा' पाषाणशृङ्गिकाः, 'सेवाल : ' प्रसिद्धः, 30 Jain Education International 20 25 www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy