SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १४९४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ महानदीप्रकृते सूत्रम् ३३ 'उपलाः छिन्नपाषाणाः । एभिरपायैर्वर्जितेन पूर्व स्थलेन गन्तव्यम् , तदभावे सङ्कमेण, तदभावे नोस्थलेनापि ॥ ५६४६ ॥ तत्र चतुर्विधे नोस्थले पूर्वममुना गन्तव्यम् उवलजलेण तु पुव्वं, अकंत-निरचएण गंतव्वं । तस्सऽसति अणकंते, णिरचएणं तु गंतव्वं ॥ ५६४७ ॥ 6 उपलजले कर्दमो न भवति, स्थिरसंहननं च तद् भवति, अतः पूर्वं तेन 'आक्रान्त-निरत्ययेन' क्षुण्ण-निष्प्रत्यपायेन गन्तव्यम् । तस्याभावे अनाक्रान्त-निरत्ययेनापि गन्तव्यम् ॥ ५६४७ ॥ एमेव सेसएसु वि, सिगतजलादीहिँ होति संजोगा। पंक महुसित्थ लत्तग, खुलऽद्धजंघा य जंघा य ॥ ५६४८॥ उपलाद् वालुका अल्पसंहनना, तत उपलजलाभावे वालुकाजलेन गन्तव्यम् । वालुकायाः 10 शुद्धपृथिवी स्वल्पतरसंहनना, ततो वालुकाजलानन्तरं शुद्धोदकेन गम्यते । तेष्वपि सिकता जलादिषु शेषपदेषु ‘एवमेव' प्राग्वद् आक्रान्ता-ऽनाक्रान्तादयः संयोगा भवन्ति । पङ्कजलं बहुप्रत्यपायम् , अतः सर्वेषामुपलजलादीनामभावे तेन गम्यते । स च यः 'मधुसिक्थाकृतिः' क्रमतलयोरेव केवलं लगति यो वा अलक्तकमात्रतेन पूर्वं गम्यते, पश्चात् खुलकमात्रेण, पश्चादर्द्ध जङ्घामात्रेण, ततो जङ्घामात्रेण जानुप्रमाणेनेत्यर्थः ॥ ५६४८ ॥ 15 यस्तु जानुप्रमाणादुपरि पङ्कस्तेन न गन्तव्यम् , यत आह अड्डोरुतमित्तातो, जो खलु उवरिं तु कद्दमो होति । कंटादिजढो वि य सो, अत्थाहजलं व सावायं ॥ ५६४९ ॥ _ 'अोरुकमात्राद्' जानुप्रमाणादुपरि यः कर्दमो भवति स कण्टकाद्यपायवर्जितोऽप्यस्ताघ• जलमिव गन्तुमशक्यत्वात् सापायो मन्तव्यः ॥ ५६४९ ॥ 20 एष विधिः सर्वोऽपि सच्चित्तपृथिव्यामुक्तः । अथाचित्तपृथिव्यां तमेवाह जत्थ अचित्ता पुढवी, तहियं आउ-तरुजीवसंजोगा । जोणिपरित्त-थिरेहि य, अकंत-णिरच्च एहिं च ॥ ५६५०॥ __ यत्र पृथिवी अचित्ता तत्राप्कायजीवानां तरुजीवानां च संयोगाः कर्तव्याः । तद्यथापृथिवी सर्वत्राप्यचित्ता किमप्कायेन गच्छतु ? किंवा वनस्पतिना? उच्यते-अप्काये नियमाद् 2वनस्पतिरस्ति तस्मात् तेन मा गात् , वनस्पतिना गच्छतु, तत्रापि परीत्तयोनिकेन स्थिरसंहननेन आक्रान्तेन निरत्ययेन च-निष्प्रत्यपायेन । अत्र षोडश भङ्गाः, तद्यथा- प्रत्येकयोनिकः स्थिर आक्रान्तो निःप्रत्यपायः, एष प्रथमो भङ्गः, सप्रत्यपायेन द्वितीयः, अनाक्रान्तेऽप्येवमेव द्वौ विकल्पो, एवं स्थिरे चत्वारो विकल्पाः लब्धाः, अस्थिरेऽप्येवं चत्वारः, एते प्रत्येकयोनि केनाष्टौ भङ्गा लब्धाः, अनन्तयोनि केऽप्येवमेवाष्टौ लभ्यन्ते, एवं सर्वसङ्ख्यया वनस्पतिकाये 30 परीत्तादिभिः पदैः षोडश भङ्गा भवन्ति ॥ ५६५० ॥ अथाप्कायस्य त्रसानां च संयोगानाह एमेव य संजोगा, उदगस्स चउविहेहिँ तु तसेहिं । अकंत-थिरसरीरे-णिरचएहिं तु गंतव्वं ॥ ५६५१ ॥ १ एतैर भा• ॥ २ गन्तव्यम् , तेष्व भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy