________________
माष्यगाथाः ५६४७-५४] चतुर्थ उद्देशः ।
१४९५ चतुर्विधास्त्रसाः-द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेति । एतैश्चतुर्विधैरपि त्रसैराक्रान्तादिभिः पदैरेवमेव उदकेन सह संयोगाः कार्याः, तद्यथा-आक्रान्ताः स्थिरा निःप्रत्यपायाः १ आक्रान्ताः स्थिराः सप्रत्यपायाः २ एवं त्रिभिः पदैरष्टौ भङ्गा भवन्ति, एते च द्वीन्द्रियादिषु चतुर्वपि प्रत्येकमष्टावष्टौ लभ्यन्ते, जाता भङ्गकानां द्वात्रिंशत् । अथ सान्तरनिरन्तरविकल्पविवक्षा क्रियते ततश्चतुःषष्टिः संयोगा उत्तिष्ठन्ते । अत्र चाक्रान्त-स्थिरशरीर-5 निरत्ययैः सान्तरैस्त्रसैर्गन्तव्यं नाप्कायेन ॥ ५६५१ ॥
तेऊ-वाउविहूणा, एवं सेसा वि सव्वसंजोगा।
उदगस्स उ कायव्वा, जेणऽहिगारो इहं उदए ॥५६५२ ।। 'तेजो-वायुकाययोर्गमनं न सम्भवति' इति कृत्वा तेजो-वायुविहीना एवं शेषा अपि संयोगाः सर्वेऽपि कर्तव्याः । तत्राप्कायस्य वनस्पतिना सैश्च सह भङ्गका उक्ताः, अथ वनस्पति-त्रसानां 10 द्विकसंयोगेन भङ्गा उच्यन्ते--किं वनस्पतौ गम्यताम् ? उत त्रसेषु ? उच्यते-त्रसेषु सान्तरेषु गन्तव्यम् , न पुनर्वनस्पती, तत्र हि नियमेन त्रसा भवेयुः । आह च निशीथचूर्णिकृत
पुवं तसेसु थिराइसु गंतवं, जतो वणे वि नियमा तसा अत्थि । पृथिव्यप्काय-वनस्पतित्रयसम्भवे कतमेन गम्यताम् ? उच्यते-पूर्वं पृथिवीकायेन, ततो वनस्पतिना, ततोऽप्कायेनापि । पृथिव्युदक-वनस्पति-त्रसलक्षणचतुष्कसंयोगसम्भवे कतमेन 15 गन्तव्यम् ? उच्यते-पूर्वमचित्तपृथिव्यां प्रविरलत्रसेषु, ततः सचित्तपृथिव्याम्, ततो वनस्पतिना, ततोऽप्कायेनापि गम्यम् । एवमिह बहुभङ्गविस्तरे वीजमात्रमिदमुक्तम् । इह च उदकपदममुञ्चता ये भङ्गाः प्राप्यन्ते ते कर्तव्याः, येनेह सूत्रे उदकस्याधिकारः। शेषास्तु विनेयव्युत्पादनार्थमभिहिताः ॥५६५२ ।। “अंतो मासस्स दुक्खुत्तो वा" इत्यादि सूत्रं व्याख्याति
एरवइ जत्थ चक्किय, तारिसए न उवहम्मती खेत्तं ।
पडिसिद्धं उत्तरणं, पुण्णासति खेत्तऽणुण्णायं ॥ ५६५३ ॥ या ऐरावती नदी कुणालाजनपदे योजनार्द्धविस्तीर्णा जङ्घार्द्धमानमुदकं वहति तस्याः केचित् प्रदेशाः शुष्का न तत्रोदकमस्ति, तामुत्तीर्य यदि भिक्षाचयाँ गम्यते तदा ऋतुबद्ध त्रय उदकसट्टाः , ते च गता-ऽऽगतेन षड् भवन्ति; वर्षासु सप्त दकसङ्घट्टाः, ते च गता-ऽऽगतेन चतुर्दश भवन्ति । एवमीदृशे सङ्घट्टप्रमाणे क्षेत्रं नोपहन्यते, इत एकेनाप्यधिके सङ्घट्टे 25 उपहन्यते । अन्यत्रापि यत्राधिकतराः सङ्घट्टास्तत्रोत्तरणं प्रतिषिद्धम् । पूर्णे मासकल्पे वर्षावासे वा यद्यनुत्तीर्णानामपरं मासकल्पप्रायोग्यं क्षेत्रमस्ति ततो नोत्तरणीयम् । अथानुत्तीर्णानामन्यत् क्षेत्रं नास्ति ततोऽसति क्षेत्रे उत्तरणमनुज्ञातम् ॥ ५६५३ ॥ इदमेव व्याचष्टे- .
सत्त उ वासासु भवे, दगघट्टा तिन्नि होंति उडुबद्धे ।
जे तु ण हणंति खेत्तं, भिक्खायरियं व न हणंति ॥ ५६५४ ॥ 30 सप्तोदकसङ्घट्टा वर्षासु त्रयः सङ्घट्टा ऋतुबद्धे भवन्ति एतावन्तः क्षेत्रं नोपनन्ति, न वा भिक्षाचर्यामुपनन्ति ॥ ५६५४ ॥
जह कारणम्मि पुण्णे, अंतो तह कारणम्मि असिवादी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org