SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 5 सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ महानदी प्रकृते सूत्रम् ३३ उवहिस्स गहण लिंपण, णावोयग तं पि जतगाए ।। ५६५५ ।। यथा कारणे पूर्णे मासकल्पे वर्षावासे वाऽपरक्षेत्राभावे दृष्टमुत्तरणं तथा मासस्यान्तरप्यशिवादिभिः कारणैरुपधेर्वा ग्रहणार्थं लेपस्यानयनार्थं वा उत्तरणीयम् । कारणे यत्र नावाऽप्युदकं तीर्यते तत्रापि यतनया सन्तरणीयम् ।। ५६५५ ॥ तत्र चायं विधिः नाव थल बहेडा, वो वा उवरि एव वस्स | " दोणी दिवमेकं, अर्द्ध णावाऍ परिहाती ।। ५६५६ ॥ अत्र पूर्वार्द्ध- पश्चार्द्धपदानां यथासत्येन योजना --- नावुत्तरणस्थानाद् यदि द्वे योजने वक्रं स्थलेन गम्यते तेन गन्तव्यं न च नौरारोढव्या, "लेवहि" ति लेपस्याधस्ताद् दकसङ्घट्टेन यदि सार्द्धयोजन परिरयेण गम्यते ततस्तत्र गम्यतां न च नावमधिरोहेत्, एवं योजनपर्याहारेण लेपेन 10 गच्छतु मा च नावमधिरुहत्, अर्द्धयोजनपर्यवहारेण लेपोपरिणा गच्छेत् न च नावमधिरोहेत्; एवं नावुत्तरणस्थानात् स्थलादिषु योजनद्वयादिकं परिहीयते । एवमेव लेपोपरिस्थानात् सार्द्धयोजन परिहारेण स्थलेन, एकयोजनपरिरयेण सङ्घट्टेन, अर्द्धयोजन परिहारेण वा लेपेन गम्यतां न च लेपोपरिणा । लेपोत्तरणस्थानादेकयोजनपर्यवहारेण स्थलेन, अर्द्धयोजन परिहारेण वा सङ्घट्टेन गन्तव्यं न लेपेन । सङ्घट्टोत्तरणस्थानादर्द्धयोजनपर्यवहारेण स्थलेन गम्यतां न च सङ्घ15 ट्टेन । एतेषां परिहारपरिमाणानामभावे नावा लेपोपरिणा लेपेन सङ्घेन वा गम्यते न कश्चिद्दोषः || ५६५६ || अत्र " नाव थल" त्ति पदं व्याचष्टे 1 १४९६ 80 द्वे योजने गत्वा यत्र स्थलेन गम्यते तेन पथा ब्रजेद् मा च नावमारोहत् । यतस्तत्र बह20 वोऽपायाः पूर्वमेवोक्ताः । कारणे तु तत्रापि गम्यते ॥ ५६५७ ॥ दो जोयणाइँ गंतुं, जहियं गम्मति थलेण तेण वए । माय दुरूहे नावं, तत्थावाया बहू बुत्ता ।। ५६५७ ॥ तत्र सङ्घट्टे गच्छतां तावद् यतनामाह थल संक्रमणे जयणा, पलोयणा पुच्छिऊण उत्तरणं । परिपुच्छिऊण गमणं, जति पंथो तेण जतणाए ।। ५६५८ ।। स्थलसङ्क्रमणे यतना कार्या, एकं पादं जले एकं च पादं स्थले कुर्यादित्यर्थः । प्रलोकना 25 नाम - लोकमुत्तरन्तं प्रलोकयति, यस्मिन् पार्श्वे जङ्घार्द्धमात्रमुदकं तत्र गच्छति । अत न पश्यति ततः प्रातिपथिकमन्यं वा पृच्छति, ततो यत्र नीचतरमुदकं तत्रोत्तरणं विधेयम् । "परिपुच्छिऊण" इत्यादि, यदि तस्योदकस्य परिहारेण पन्था विद्यते तदा तं परित्यज्य यतनया तेन गन्तव्यम् ॥ ५६५८ ॥ अथ स्थलपथेऽमी दोषा भवेयुः - समुदाणं पंथो वा, वसही वा थलपथेण जति नत्थि । सावत- तेणभयं वा, संघद्वेणं ततो गच्छे ॥ ५६५९ ।। ' समुदानं' भिक्षा तत्र नास्ति, स्थलपथ एव वा नास्ति, वसतिर्वा स्थलपथे यदि न समस्ति, श्वापदभयं स्तेनभयं वा तत्र विद्यते ततः स्थलपथं मुक्त्वा सङ्घट्टेन प्रथमतो गच्छेत्, तदभावे लेपेन ॥ ५६५९ ॥ तत्रेयं यतना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy